पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२२
श्रीवेङ्कटेशाष्टोत्तरशतनामम्तोत्रम्


वराहाचलनाथाय बलभद्राय ते नम: ।
त्रिविक्रमाय महते हृर्षीकेशाय ते नमः ॥४१

अच्युताय नमो नित्यं नीलादिनिलयाय च ।
नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ॥४२

मुकुन्दाय नमो नित्यमनन्ताय नमो नमः |
विरिञ्चाभ्यर्थितानीतसैौम्यरूपाय ते नमः ॥४३

सुवर्णमुखरीखानमनुजाभीष्टदायिने ।
हलायुधजगतीर्थसमस्तफलदायिने ॥४४

गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः |
अष्टोत्तरशतं नाम्नां चतुथ्यं नमसाऽन्वितम् ॥४५

यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ।
तस्य श्रीवेङ्कटेशस्तु प्रसन्ने भवति ध्रुवम् ॥४६

अर्चनायां विशेषेण आह्यमष्टी तरं शतम् ।
वेङ्कटेशभिधेयेयों वेङ्कटाद्रिनिवासिनमू ॥४७

अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ।
गोपनीयमिदं स्तोत्रे सर्वेषां न प्रकाशयेत् ॥४८

श्रद्धाभक्तियुञ्जामेव दापयेन्नामसंग्रहम् ।
इति शेषेण कथित कपिलाय महात्मने ॥४९