पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१३
श्रीवेङ्कटेशप्रपतिः

 
लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसंक्रमणत: केिल मान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥८॥

नित्यानभद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवेलमहःप्ररोहैः ।
नीराजनाविधिमृदाग्मृपादधानी
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥९॥

विष्णोः पदे परम् इत्युदितप्रशंसौ
यैौ मध्व उत्स इति भोग्यतयाऽप्युपात्तै ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥१०॥

पार्थाय तत्सदृशसारथिना त्वयैव
यैौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरगी शरण प्रपथे ॥११॥

मन्मूर्धि कालियफणे विकटाटवीधु
श्रीवेङ्कटाद्विशिखरे शिरसि श्रुनीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितैौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥