पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४३२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीवैखानस ‘पूजां करोमि पुरुषोत्तम ! पुष्यमूर्ते !
गोपाल ! देय ! करुणाकर! देवदेव!।
इत्थं समीरित उवाच मुर्नःश्वरं ते
तयोचितं वचनमेष महानुभवः ॥ ४७

श्रीकृष्णः त्वया ध्येयः श्रीनिवासो नाहं ध्येयो मुनीश्वर ।।
गच्छ शेषगिरिं तत्र वल्मीके वर्तते शुभा ॥ ४८

प्रतिमा श्रीनिवासस्य तस्यूजां कुरु सन्नतम् ।
सङ्गमिष्यति ते मार्गे शूद्रः श्रीरङ्गदासकः ॥ ४९

पूजकस्य भवेच्छूद्रः सेवकस्ते महामुने!।
एवमुक्तोऽथ हरिणा सम्प्राज्ञो वेङ्कटाचलम् ॥ ५०

सङ्गमस्तु बभूवाम्य मुनेः शूद्रेण वर्मनि ।
ततस्तु तेन सहितो गया श्रीवेङ्कटयचलम् ॥ ५१

वल्मीकस्थं हरिं दृष्ट्वा पूजयामास वै मुनिः ।
पुष्पाण्याहयामास रह्दसो महायशाः ॥ ५२

अकसादैवयोगेन गन्धर्वः कुण्डयहयः ।
सानार्थमगच्छीघ्र स्वाभिः स्त्रीभिर्जलशयम् ॥ ५३

वसन्ते विजने तत्र स्वामिपुष्करिणीजले।
जलक्रीडापरास्तत्र दृष्टा ता रङ्गदासकः ॥ ५४

मुदोद्रिक्तमना भूत्वा रसोऽयक्षीद्धरातले ।
पुनः स्नात्वा शुचिर्भूत्वा पश्चातापेन निन्दितः ॥ ५५

बद्धं मालाकुलं सर्वं परित्यज्य पुनस्तदा।
पुनराहृत्य पुष्पाणि शीघ्रमादाय पादजः ॥ ५६