पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३७४
श्रीवेङ्कटाचलमाहात्म्यम्


सान्वयन् वासुदेवन्तु भारतीमह भूपते ।।
प्रहा- 'किमर्थं मोहयसि नो मायापह्नरत्रासिनः ॥ २२

कोऽपि नास्तीति योक्तं तदसस्यं चतुभुज!।
पुत्रोऽहं तत्र कल्याण ! पौत्रः साक्षास्त्रिलोचनः ॥ २३

मन्मथोऽन्यः पुमान् पुत्रः पौत्रपुवः षडाननः ।
जगप्राणो ज्येष्ठपुत्रः स्नुषा ते भारती हरे ॥ २४

सरस्वत्यादिशः सर्वाः स्त्रियस्त्रपादसेविकाः ।
यं पुमन परमः साक्षात जगद्धात्री तवर्जना ॥ २५

क्रोडामत्रमिदं मन्ये त्वकृतं पुरुषोत्तम!।
एवं विभवमापन्नः स्वं न मोहयसे वृथा॥ २६

इत्थमुक्ता ) चतुर्वक्त्रे वासुदेवं रमसखम् ।
मां सीतयामास स रमा वाक्यमब्रवीत्। २७

श्रीरमा -

विदितं हृदयं देव! तव वेङ्कटसुलभ ! ।
तैलाभ्यङ्गादिकर्माणि करिष्ये पुरुषोत्तम॥ २८

उत्तिष्ठ त्यज दुःखं ते समारोह वरासनम् ।
स रमागिरमाकथं सन्तोषान्नयनजलम् ॥ २९

मुञ्चन् मुनिवसन् राजन् ! नन्दयन् नरसारथिः ।
कश्ग्रपात्रिभरद्वाजविश्वामित्रपुरोगमान् ॥ ३०

प्रणिपत्य वसिष्ठं स आह विश्वं विडम्बयन् ।

श्रीनिवासः-

अनुज्ञां देहि मे ब्रह्मन् ! भजनार्थं महामुने । ॥ ३१

‘ तथास्त्रि’त्यमवीकृष्णे वसिष्ठः सपुरोहितः।
सपत्नीकान् सुरान् सर्वान् सभार्यान् ऋषिमण्डलन् ॥ ३२