पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३६८
श्रीवेङ्कटाचलमाहात्म्यम्



अक्लेशकस्य देवेश! किमर्थं रोदनं वृथा।
स च तद्वचनं श्रवा नीलकण्ठमभाषत ॥ १६५

श्रीभगवान्-‘त्वं न जानसि भोः शम्भो! बालभावो न पौनक ! । ।
यदा ब्रह्माऽवसाने च न किञ्चिदवशिष्यते ॥ १६६

तद। क्षीरोदके शम्भो! निरालवे निराश्रये ।
स मे शय्यासखी भूत्वा । क्रीडते हितकारिणी ॥ १६७

एतादृशं विना शम्भो! मम सौस्ये कथं भवेत् ?
वदत्येवं जगन्नाथे वेध वीक्थमभाषत ॥ १६८

ब्रह्मा- 'नक्तं स्वयेदं गोविन्द ! पूर्वमेव जनार्दन!।
अद्य मां कमलानथ ! रमाऽऽह्ने नियोजय ॥ १६९

भगधदुत थारमनयनाय करवीरपुरं प्रति वर्षगमनम्

सोऽपि पुत्रवचः श्रुत्वा द्युमणिं शीघट्टयत् ।
षण्मुखेन महाराज सेऽपि तत्र समागतः ॥ १७०

ननाम भक्त्य। सुवऽथ प्राञ्जलिः प्रमुखे स्थितः ।
भास्करं भक्तिनम्री भगवानlह हृद्गतम् ॥ १७१

श्रीभगवान्- मृणालवसुदेवस्य नगरं गच्छ भनुमन् ! ।
तत्राऽस्ते जगतां माता तामनय ममान्तिकम् ॥ १७२

भारतीं वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः ।
विनयेन समायुक्तः शिरसाऽऽनम्य चाभदन् ॥ १७३

भानु- ‘कथं तां लोकजननीं आनयिष्ये तत्रान्तिकम् ।
तन्ममाचक्ष्व गेयेविन्द ! कथं मां विश्वसेदमा ॥ १७४

श्रीभगवान् ‘ अस्ति तस्यास्वयि नेहः सद। लोकमहोदये ।
वदगमनसंहृष्ट समायाति ममान्तिकम् ॥ १७५