पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४८
श्रीवेङ्कटाचलमाहात्म्यम्


ददर्श सशिरःपाणिं कृतकार्यविनिश्चयम् ।
शुकं प्राह स्म भवत्यैव चासनादुत्थिक्षो हरिः ॥ १८०

श्रीनिवासः‘ कथं मदीयं विप्रेन्द्र! पकं चाऽपकमेव वा।
श्रीशुकः- ‘कार्यं तव कृपासिन्यो! पकमेव न संशयः ॥ १८१

शुभं वाक्यमिति श्रुत्वा दण्डवप्रणतं भुवि ।
समालिङ्ग्य शुक कृष्णो भक्या हर्पवशं गतः ॥ १८२

अतिचित्रचरित्रऽत्मा शुकमाह महीपते !।
श्रीनिवाम-' वदन्ति लोका अनृतान् सहस्रान् विवाहकामा नरजन्मनो ये ॥ १८३

ते यान्ति मद्धाम विमत्र वाच्यं जगकुटुघस्य विवाहकामे ।
नरो बिभर्ति स्वसुतं स्वभार्या स्वजनं गृहम् ॥ १८४

ब्रह्माण्डं भवनं विद्वन्! ब्रह्म मे नाभिसम्भवः।
या लक्ष्मीर्मम कल्याणी ये चान्ये मम चौरसाः ॥ १८५

चतुर्नवतिलक्षाणि जीवाः सन्ति ह्यसिद्धयः ।
एतेषां रक्षणे बद्धदीक्षोऽहं मुनिसत्तम! ॥ १८६

महाकुटुम्बयुक्तस्य मम कल्याणकारणात् ।
यन्मिथ्या भाषितं स्वामिन्! त्वयाऽद्य मुनिसत्तम ! ॥ १८७

त्वकृतयोपकरस्य प्रतिदातु न विद्यते ।
तथाऽपि तव दास्यामि शरीरालिङ्गनं मुने !॥ १८८

मच्छरीराद्भरिष्ठन्तु न विजानामि ते शुभम् ।
एवमुक्तोऽङ्गसङ्गञ्च तस्यादात् पुरुस्योत्तमः ॥ १८९

त्वयुष्ययावधिनति मसक़त पुण्यक्षः। ।
यथा त्वया कृत कर्म तथा पूर्वं कपीश्वरः ॥ १९०

सीतानिमते यः कर्म कृतवान् मारुतात्मजः । ।
तस्मै प्रादां महीदेव! सन्तुष्टः सहभोजनम् ॥ १९१