पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४७
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


चैत्रशुक्लत्रयोदश्यां एतपत्रं विलिख्यते ।
कन्य पझावतीं तुभ्यं दास्य मीति मतिर्मम ॥ १६९

तामङ्गीकुरु गोविन्द ! विवाहविधिपूर्वकम् ।
शुकं वेति गुरैर्वेति हृदयं मम सर्वतः ॥ १७०

मा कुरुप्यत्र सन्देहं कयौं पुरुसोत्तम!।
वैशाखशुक्लदशमीभृगुवारे शुभे दिने ॥ १७१

बन्धुभिः सह सम्प्राप्य मामुह्य गणैः सह ।।
हर्षेण पाणिग्रहणं कर्तव्यं मे मनगतम् ॥ १७२

अधिकं लेखनीये ते किमन्ति पुरुषोत्तम!।
शुको वदति यत्सत्ये तत्सर्वं कुरु केशव ! ॥ १७३

इयाशिषः स तु ह्यनुभव! ते समस्तकल्याणगुणार्णवः प्रभो।
नित्याय सत्याय सुखस्वरूपिणे समतलोकप्रभवे महात्मने॥ १७४

इथं लिखित्वा वरपत्रिकां शुभां अकशराज्ञो जगदीशसन्निधिम् ।
सम्प्रेषयामास शुक महान्तं सपुत्रमित्रः सहबान्धवानुगः ॥ १७५

क्रोशमात्रमुपागम्य शुक वचनमब्रवीत् ।
राजा- येन केन प्रकारेण तस्य चित्तं वशीकुरु ॥ १७६

अयुतं स्वर्णली व कोटिं वाऽर्धदमेव वा।
दास्यामि द्रव्यनिचये नात्र कार्या विचारणा ।।
एवमुक्तो महीदेवो गतः शेषाचलं प्रति ॥ १७७

मध्यं गते दीप्तकरे महामा समागतस्तत्र शुकसशिष्यः।
हरेर्जनन्याऽनुगतो विरागी तदंशेनIऽद्दगतयशेषः ॥ १७८

अवामक्ष्य चायान्तं वेङ्कटाद्रिशिखामणिः ।
माता च नाऽगता कामा दिति चिन्तापरो हरिः।
एतस्मिन्नेव काले तु कृष्णद्वैपायनात्मजम् । १७९