पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
श्रीवेङ्कटाचलमाहात्म्यम्


भगवद्दर्शनार्थमगस्त्यस्य वेङ्कटाचलागमनम्

तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः ।
अगस्त्योऽप्याससादाथै शैलं मुनिशतावृतः ॥ ३२

प्रतीचीं दिशमारभ्य तयत्नः प्रदक्षिणे।
पश्यंस्तीर्थानि पुण्यानि यन्नाम सुचिरं गिरी ॥ ३३

तत्र तत्र ददर्शासौ हरिदर्शनलालसान् ।
विरिञ्चिगुह्शराविष्वक्सेनादिकान् क्रमात् ॥ ३४

सनकाद्यांश्च योगीन्द्रान् नारदप्रमुखान् त्रीन्।
सिद्धगन्धर्वैदैतेययक्षराक्षसपन्नगान् ॥ ३५

तैस्तैः सम्माम्न्यमानोऽसौ प्रश्रयप्रियभाषणैः ।
पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥ ३६

स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च ।
तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥ ३७

एवं भ्रान्त्वा गतेऽब्दानां सहयैर्मुनिसत्तमः ।
अद्यन् पुण्डरीकक्षे चिन्ताशोकपरोऽभवत् ॥ ३८

तस्मिन् काले समाजग्मुः धिषणोशनसौ पुनः।
राजोपरिचरो नाम वसुश्च तमृषीश्वरम् ॥ ३९

अगस्त्यं प्रति गुरुमुखाद्युक्तिः

"अस्माकं समले तं जीवितं मुनिसत्तम!।
दृष्टो भवान् यदस्माभिः नारायण इवापरः ॥ ४०

ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ।
अच्युतालोकनपराः तदिदं कथ्यते तव ॥ ४१