पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
श्रीवेङ्कटाचलमाहात्म्यम्


नरीः
'तुम्बुरुर्नाम गन्धर्वः सर्वविधाविशारदः ।
तस्य भार्याऽस्म्यहं विप्र! भगस्य! मुनिसेवित ॥ ७३

भर्ता मे सर्वधर्मज्ञः तुम्बुरुर्मुनिसत्तमः ।
सर्वधर्मान् मनोज्ञा त्वं कुरु नित्यं मया सह ॥ ७४

पतिवक्यं तदा श्रुत्वा परलोकोपकारकम् ।
असतं वाक्यमयुगं दुर्गतिप्रदमेव हि ।
मय चोक्तं हि दुर्मुख्य । हे तात ! मुनिसत्तम ! ॥ ७५

अगस्त्यकथितपतिव्रताधर्माः



अंगस्य:-

‘कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषाऽन्वितः ।।
एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥ ७६

पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ।
सा नारी निरये घोरे पतत्याचन्द्रतारकम् ॥ ७७

न स्वातन्त्र्यं तु नारीण मोठ्यं पनिभाधणम् ।
यासित्रत्येन पुण्येन पतिशुश्रूषणेन च ॥ ७८

लियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ।
पतिर्माता पतिर्विष्णुः पतिव्रता पतिः शिवः ॥ ७९

पतिर्गुरुः पतितीर्थ इति स्त्रीणां विदुर्मुखः।
पतिघावयमपाकृत्य या नारी सुकृतैः परैः ॥ ८०

सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ।
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥ ८१

सा कृतज्ञा विदध्यातु व्रत धर्मफलप्रदम् ।
पतिना प्रेरिता सैव पतिवुद्धिपरायणा ॥ ८२