पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४४
श्रीवेङ्कटाचलमाहात्म्यम्


यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत् ।
न करोमि पते ! ज्ञानं प्रातःकाले त्वया सह। ॥ ५१

मृते शीतनिपातेन न च मे रक्षको भवान् ।
इत्येवमुदितं ध्रुवा पतिर्गन्धर्वचकुभः ॥ ५२

स शस्तोऽपि शशापाथ भयञ्चाप्रियवादिनीम् ।
'पुत्रश्च धर्मविमुखे भार्याश्चाप्रियभाषिणीम् ॥ ५३

अनलण्यञ्च राजानं सद्यः शापेन दण्डयेत्। ।
इति न्यायं विचिभ्यासौ शशापेत्थं सतीं तदा॥ ५४

’वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ।
घोणतीर्थसमीपे च पिप्पलद्रमकोटरे ॥ ५५

तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ।
इत्येवं भर्तृवाक्ये तत् श्रुत्वा गन्धर्वयलभा ॥ ५६

पति वा पादयोस्तस्य तुम्बुरुं प्रार्थयत् सती।
विशापमवदत्पश्चात् भर्ता वै तुम्बुरुतदा ॥ ५७

आगस्य वै महाभागः तपस्वी विजितेन्द्रियः ।
घोणतीर्थवरे स्नात्वा पौर्णमास्यां महाथिौ ॥ । ५८

लिष्येभ्यो वे यंदा । तसिन् अश्वत्थद्रमसानघ ।
घोणतीर्थस्य माहात्म्यं वक्ति वै ब्रह्मणोत्तमः ॥ ५९

तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता।
श्रुत्वा वे घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥ ६०

विधूय सर्वपापानि मया साकं रमिष्यसि ।
इयुक्त्वा विररामाथ धर्मपत्नी पतिव्रता ॥ ६१

भर्तृशापान्महाघोरात् मण्डूक्तनुमाश्रिता ।
शेषाद्रिशिखरे तस्मिन् धोणीर्थस्य दक्षिणे ॥ ६२