पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
अथ षोडशोऽध्यायः


(तुम्बुरु)घोणतीर्थमाहात्म्यम्



श्रीसूतः--
अत्राहं सग्रवक्ष्यामि शौनकाद्य महौजसः!।
घोणतीर्थस्य माहस्यं सर्वपातकनाशनम् ॥ १

तत्र ज्ञानं जनानान्तु जन्मान्तरतपः फलम् ।
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥ २

तुम्बस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
अपराहे समायान्ति गङ्गादीनि जगत्त्रये ॥ ३

ऋषयः---

भगवन् सूत! सर्वज्ञ ! सर्वशास्त्रार्थपारग!
गङ्गाद्यः सरितः सर्वा घोणतीर्थेऽतिपावने ।
किमर्थं वान्ति वै तत्र मीनसंस्थे प्रभाकरे ॥ ४

'पापिन मनुजाः सर्वे ह्यस्मासु स्नान्ति यज्ञतः ।
विसृज्य पापजालानि कृतार्था यान्ति वै जनाः ॥ ५

अस्माकं पापजाल तत् कथं नश्यति सर्वतः।
एबमालेच्य तीर्थानि गङ्गादीनि प्रयत्नतः ॥ ६

संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ।
अवयं मनोहरं दिव्यं सर्वपापनिषादनम् ॥ ७

गत्वा श्रीवेङ्कटं शैलं ब्रह्महत्यादिशधकम् ।
तत्र स्नात्वा तीर्थवर्षे स्वामिपुष्करिणीजले ॥ ८

अनन्तरं ततो विप्राः’ घोणतीर्थेऽतिपवने।
उक्तराफल्गुनीयुक्तशुकपक्षीयपर्वणि ॥ ९