पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
श्रीस्कान्दपुराणे सप्तमोऽध्यायः


गृध्रजन्माऽभवत्पश्चात् वेङ्कटाचलर्भूधरे ।
स कदाचिजलं पातुं तीर्थं पापविनाशने ॥ ८८

समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ।
तदैव दिव्यदेहः सन् सर्वाभरणभूषितः ।
दिव्यं विमानमारुह्य प्रययावमराऽलयम् ॥ ८९

श्रीमूत - एवम्प्रभावमेनवें तीर्थं पापविनाशनम् ।
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् । । ९०

इत्थं रहस्यं कथितं मुनीन्द्राः ! तद्वैभवं पापविनाशनस्य ।
यत्राभिषेकात् सहसा विमुक्तौ द्विजश्च शुद्भश्च विनिश्चकृत्यैौ । ९१

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहास्ये पपविनाशन


तीर्थमहिमानुवर्णनं नाम नवमोऽध्यायः ।।


अथ दशमोऽध्यायः


---:* :--


भूयः पपविनाशनतीर्थमाहात्म्यवर्णनम्



पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम् ।
भगवद्भक्तिभावेन श्रुणुध्वं सुसमाहिताः ! ॥ १

इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम् ।
यच्छूबा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २

भक्ष्मत्याख्यदरिद्रद्विजवृत्तान्तः ।

आसीत् पुरा द्विजवरो वेदवेदाङ्गपारगः ।
दरिद्र वृतिहीनश्च नाम्ना भद्रमतिर्द्रिजः ॥

7-A.