सुनमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम् ।।
प्रयकः स्नपय सुतं तीर्थं पापविनाशने ॥ ७८
ज्ञानेन त्रिदिनं तत्र ब्रॉक्षो विनश्यति ।
नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥ ७९
तस्माच्छत्रं प्रयाहि त्वं वेङ्कटाऽह्यपर्वतम् ।
तत्र पापविनाशाख्यतीर्थे तपथ ते सुतम् ॥ ८०
मा विलयं कुरुस्वात्र त्वरया याहि वै द्विज!।
इत्युक्तः स द्विजोऽगम्यं प्रणम्य भुवि दण्डवत् ॥ ८१
अनुज्ञातश्च तेनासौ प्रययौ वेक्काचलम्।
सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम् ॥ ८२
सुमतेः पापनाशनम्नानेन दुर्गत्यपनोदनम् ।
सङ्कल्पपूर्व संस्नाप्य दिनत्रयमसौ सुतम् ।
सनौ स्वयश्च विप्रेन्द्रः पिता पापविनाशने ॥ ८३
समागत पमैौ तोयं कृत्वा चाप्यहंक्रमम् ।
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥ ८४
समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ।
सर्वसम्पत्समृद्धसैौ भुक्ता भोगाननेकशः ॥ ८५
देहान्ते प्रययौ मुक्तं ज्ञानात् पापविनाशने।
पिताऽपि तत्र स्नानेन देहन्ते मुक्तिमाप्तवान् ॥ ८६
वैदिककर्मानुष्ठातुध्दमतेः दुर्गतिमप्यपनोदनम् ।
तेनोपदिष्टोऽयं शूद्रः स भुकू नरकन् क्रमात् ।
अनेकासु जनित्वा च कुत्सितास्वषि योनिषु ॥ ८७
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
श्रीवेङ्कटाचलमाहात्म्यम्