पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
श्रीस्कान्दपुराणे अष्टमोऽध्यायः



निःसन्देहो भवेदेवं श्रीनिवासविलोकिनाम् ।
श्रीवेङ्कटेश्वरे देवे तीर्थानि सकलान्यपि ॥ ५

बिद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ।
एककालं द्विकालं वा त्रिकाले सर्वदैववा ॥ ६

ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ।
कीर्तयन्त्यथवा विप्राः! ते मुक्ताः पापपन्नगरात् ॥ ७

नारायणं परं देवं वेकटेशं प्रयान्ति वै ।
पूजितं शक्रजेन सच्चिदानन्दविग्रहम् ॥ ८

तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ।
श्रीनिवासं महादेवं येऽर्चयन्ति सकृन्नराः ॥ ९

किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः।
वेङ्कटेशे परं देवं यो न चिन्तयति क्षणम् ॥ १०

अज्ञानी स च पाप स्यात् स मूको बधिरस्तथा । ।
स जडोऽन्धश्च विज्ञेयः छिदं तस्य सदा भवेत् ।। ११

श्रीनिवासे महादेवे सकृद्दृष्टं मुनीश्वराः!।
किं काश्या ? गयया चैव ? प्रयागेनापि किं फलम्? ॥ १२

दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ।
वेङ्कटेशे परं देवं ये पश्यन्त्यर्चयन्ति वा ॥ १३

जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ।
वेङ्कटेशे परे देवे दृष्टे वा पूजितेऽपि वा ॥ १४

शम्भुना ब्रह्मणा किं वा ? शक्रेणाप्यखिल्वमरैः ?।
वेङ्कटेशे महादेवे भक्तियुक्तश्च ये नराः । १५

तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ।
न ते पश्यन्ति दुःखानि नैव यन्ति यमाऽलयम् ।। १६