पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
श्रीवेङ्कटाचलमाहात्म्यम्


ब्रह्महत्यासहस्राणि सुरापानायुतानि च ।
दृष्टं नारायणं देवे विलयं याति कृत्स्नशः ॥ १७

ये वाञ्छन्ति सदा भोग राज्यश्च त्रिदशालये।
वेङ्कटादिनिवासं ते प्रणमन्तु सकृन्मुदा ॥ ९८

यानि कानि च पापानि जन्मकोटिकृतानि च ।
तानि सर्वाणि नश्यन्ति वेङ्कटेश्वरदर्शनात् ॥ १९

सम्पर्कात् कौतुकलोभात् भयाद्वाऽपि च संसरन् ।।
वेङ्कटेशं महादेवं नेहामुत्र च दुःखभाक् ॥ २०

वेझचलदेवेशं कीर्तयर्चयन्नपि ।
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ॥ २१

यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुते क्षणात् ।
तथा पापानि सर्वाणि वेङ्कटेश्वरदर्शनात् ॥ २२

वेङ्कटेश्वरदेवस्य भक्तिरष्टविधा स्मृता।
तद्भक्तजनवत्सल्यं तत्पूजापरितोषणम् ॥ २३

स्वयं तयूजनं भक्तच तदर्थं देहवेष्टितम् ।।
तन्माहात्म्यथावधि श्रवणेष्वादरस्तथा ॥ २४

स्वरनेत्रशरीरेषु विकारस्फुरणं तथा।
श्रीनिवासस्य देवा स्सरणं सततं तथा ॥ २५

वेङ्कटादिनिवासं ते अश्रत्यैवोपजीवनम् ।
एवमष्टविधा भक्तिः यस्मिन् म्लेच्छेऽपि वर्तते । २६

स एव मुक्तिमाप्नोति शौनकाद्या महौजसः!।
भया त्वनन्यया मुक्तिः प्रेक्षज्ञानेन निश्चिता।
वेदान्तशास्त्रश्रवणात् यतीनामूर्चरेतसम् ॥ २७