पृष्ठम्:श्रीविष्णुगीता.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
श्रीविष्णुगीता।


ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।।
शाश्वतस्य च धर्मास्य सुखस्यैकान्तिकस्य च ॥ ३१॥
धर्मस्य साम्प्रतं देवाः ! विशेषाणां ब्रवीम्यहम् ।
अङ्गानां त्रिविधं रूपं युष्माभिरवधार्यताम् ।। ३२ ॥
यज्ञो दानं तपस्त्रीणि धर्माङ्गानि प्रधानतः ।
तेषु यज्ञः प्रधानं स्यात्तस्य भेदास्त्रिधा मताः ॥ ३३ ॥
ज्ञानोपासनकर्माणि यदुक्तानि मनीषिभिः ।
सर्वशास्त्रेषु निष्णातैस्तत्त्वज्ञानाब्धिपारगैः ॥ ३४ ॥
विशिष्टचेतनायुक्ता नराद्या जीवजातयः।
स्वस्वाभाविकयोः सौख्यैश्वर्ययोस्त्यागतो ध्रुवम् ॥ ३५ ।।
अदृष्टशक्तिं परमां यां लभन्ते सुरर्षभाः ।
तमेव यज्ञं संपाहुः सर्वे तत्त्वविवेचकाः ॥ ३६ ॥
एतेषामेव सर्वेषामङ्गानां क्रमशः सुराः।
शृणुध्वं त्रिविधान् भेदान् वच्म्यहं गुणभेदतः ॥ ३७॥


ब्रह्मभावको प्राप्त होता है ॥ ३० ॥ क्योंकि मैं नित्यस्थित और मोक्षस्वरूप ब्रह्म के प्रतिष्ठा (स्थिति) का स्थान हूं, मैं ही सनातनधर्म और ऐकान्तिक सुखका स्थान हूं ॥ ३१ ॥ हे देवतागण ! अब मैं धर्मके विशेष विशेष अङ्गोका त्रिविध स्वरूप वर्णन करता हूं आपलोग ध्यानपूर्वक सुनिये ॥ ३२॥ धर्म के प्रधान तीन अंग हैं, यज्ञ तप और दान । उनमें मुख्य अङ्ग जो यज्ञ है उसके तीन भेद हैं॥३२॥ज्ञान कर्म और उपासना, इस बातको सर्वशास्त्रनिष्णात तत्त्वज्ञानी पण्डितोने कहा है ॥३४॥ हे देवतागण ! विशिष्टचेतन मनुष्य आदि जीवगण अपने स्वाभाविक सुख और ऐश्वर्यके त्याग द्वारा जो परम अदृष्ट शक्ति अवश्य प्राप्त करते हैं उसीको तत्वविवेचक लोग 'यज्ञ कहते हैं॥ ३५-३६ ॥ हे देवतागण ! इन्हीं सब अङ्गोके त्रिविध भेदोंको क्रमशः बतलाता हूं, आपलोग समाहितचित्त होकर सुनिये ॥३७॥