पृष्ठम्:श्रीविष्णुगीता.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ श्रीविष्णुगीता। महाविष्णुरुवाच ॥ ७ ॥ अपि वः श्रद्धया भक्त्या प्रसन्नोऽस्मि दिवौकसः !। भवद्भयः साम्प्रतं दिव्यं ज्ञाननेत्रं ददाम्यहम् ॥ ८॥ यूयं यज्ज्ञाननेत्रेण स्थातुं शक्ताः सुरर्षभाः । चेद्विज्ञानमये कोषे तदा भवितुमर्हथ ॥९॥ कृतकृत्या अनाद्यन्तं दृष्ट्वा नित्यस्थितं विभुम् । रूपं स्थूलादपि स्थूलं ममैतद्धि प्रतिक्षणम् ॥ १० ॥ व्यास उवाच ॥ ११ ॥ ततो ज्ञाननिधिर्मान्यो महाविष्णुर्दयार्णवः । दिव्यं ज्ञानमयं चक्षुर्देवेभ्यो दत्तवान् प्रभुः ॥ १२ ॥ सर्वे देवास्तदानीम्वै स्थिराङ्गाः स्थिरलोचनाः । समाधिस्था भवन्तो हि विस्मिताश्च विशेषतः ॥ १३ ॥ बुद्धेरतीतं जीवानामवाङ्मनसगोचरम् । विराडूरूपश्च पश्यन्तस्तुष्टुवुस्ते तदद्भुतम् ।। १४ ।। महाविष्णु बोले ॥ ७॥ मैं आपलोगोंको दिव्य ज्ञाननेत्र प्रदान करता हूँ जिसके द्वारा हे सुर हे देवगण ! आपलोगोकी श्रद्धा और भक्तिसे मैं प्रसन्न हूँ, अब श्रेष्ठो! आप यदि विज्ञानमय कोषमें स्थित रहसकोगे तो मेरे इस अनादि अनन्त नित्यस्थित विभु स्थूलातिस्थूल रूपको हर समय दर्शन करके कृतकृत्य हो सकोगे ॥ ८-१०॥ व्यासदेव बोले ॥ ११ ॥ तब करुणासागर ज्ञाननिधि और मान्य प्रभु महाविष्णुने देवताओं को ज्ञानमय दिव्य चक्षु प्रदान किया ॥१२॥ तब वे सब देवगण स्थिर- गात्र और स्थिरनेत्र होकर समाधिस्थ और विशेष विस्मित होते दर्शन करते हुए स्तुति करनेलगे ॥ १३-१४ ॥