पृष्ठम्:श्रीललितासहस्रनाम.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना


'
'डा० एस् बि० रघुनाथाचार्य

रीडर् संस्कृतविभागः
श्रीवेङ्कटेश्वरविश्वविद्यालय

'तिरुपति
'

इह खलु सुखप्राप्तिमहितनिवृतिञ्च कामयमानः प्राणिनः धर्मार्थ
कामरूप त्रिवर्गमुपसेवमाना दरीदृश्यन्ते। अनुष्ठानपर्यवसायि तत्त्व
शास्त्रमिति भारतीयानामस्माकं सुदृढोऽभिसन्धिः। धर्मार्थकामरूपत्रिवर्गसं
सेवनं यदि यथाविधि सनियमं सम्पद्यते तर्हि तन्मोक्षरूपं फलं प्रसुवीतेति
निश्चप्रचम्। तत्रापि हि द्वयी गतिः कर्मज्ञानभेदेन । परापरतत्त्वविदां
परमानन्दैकस्वरूपाणां ज्ञानिनामन्यः पन्था । कर्ममार्गमनुगच्छतां ताव
त्फणितिरन्या ।
कर्ममार्गावलम्बिषु जनेषु केचन स्वसम्प्रदायानुरोधं वैदिकं धर्म
मातिष्ठमानः स्वाभिलषितानर्थान् साधयन्ति । अन्ये च पुनस्तन्तिकाः
देवपूजापरायणाः स्वकामनाः सफलयन्ति। यद्यप्यैहिकसुखस
म्पादने चकास्ति भेद उभयोरपि, अथापि परमपुरुषार्थः मोक्ष
इत्यत्र नास्त्यल्पीयान् भेदः । तत्र देव्यात्रिपुरसुन्दर्याः प्रभावः
समाराधनप्रकारश्च सुन्दरीतापिनीपञ्चकं, भावनोपनिषत्, कौलोपनिषत्
गुह्योपनिषत्, महोपनिषत् प्रभृतिषु ग्रन्थेषु सप्रपञ्चमुपदिष्ट ।
एतच्छेषभूततया परशुरामकल्पसूत्राणि यामलादितन्ाणि च सम्प्रवृ
तानि। कर्म-ज्ञानकाण्डोपबृहणार्थ समुत्पत्रेषु पुराणेष्वपि देव्या
महत्वं तत्र तत्र विशेषतः प्रत्यपदि।
मन्तशास्रतत्त्वप्रतिपादकेषु ग्रन्थेषु बहुसंख्याकेषु विद्यमानेष्वपि
समुल्लसत्येव समुन्नतं स्थानं श्रीललितानामसहस्रस्य। एतदन्तर्गतं