पृष्ठम्:श्रीललितासहस्रनाम.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
[प्रथमशतकं
ललितासहस्रनाम

स्वशास्त्रोपयुक्तपरिभाषा न्यायमूलत्वेन विदुषां सुलभा इत्याशयेनैकीकृत्य न दर्शि
तास्तथापि शिष्यानुजिघृक्षयास्माभिरत्र कथ्यन्ते । कटपयवर्गभवैरिति पूर्वोक्तश्लोके
हुकारत्र'कारयोः शून्यसंकेतः कृतः इहृतु दशन्वसंख्यायां क्रियते, तस्या एवापेक्षणात
राणि स्वररूपाणि । ' चतुरश्छयतावाद्याक्षरलोपश्चे ' ति पाणिनिसूत्रे 'एष वै
सप्तदशः प्रजापति'रित्यादिश्रुतिषु च मंख्यायाः स्वरमात्राश्रयत्वदर्शनात् । एक
द्विश्यादिसंख्यावाचकपदानि न यत्र पादोऽध वा विशेप्यत्वेन निर्दिश्यते तत्र तानि
पादायत्मकनामसंख्यापराणि । यत्र च विशेष्यनिर्देशामन्तरेण प्रयज्यन्ते तत्र सम
संख्याकाक्षरनामसंख्यापराणि । तत्राप्यधंस्यार्धयोरधनां वा समाप्तिपर्यन्तं यानि
नामानि तत्पराण्येव न पुनस्त्रिपादपञ्चपादान्तगंतनाभपराणि । एकद्वित्रिचतुःपादा
द्यन्तगंतवर्णानां न सांकेतिकायं प्रयोग इति ! एतदुदाहरणानि न्यायाश्चावसर एव
ठयक्तीभविष्यन्ति । गणी गकारणकारौ त्रित्वपञ्चत्वसंयापरौ तस्याश्च नामवि
शांrयकत्वे श्रीणि पञ्च च नामानीति पर्यवसानात्तावता कनिभिरक्षरैरेक नामेत्या
काङ्क्षाया अनिरामनाकाङ्क्षितविधान 'याय इति सोमचयनेप्टयधिकरणन्याये
नाक्षराणयेव दिोपयाणि स्त्रीक्रियन्ते । तेषां च नामान्तरसांगायण विशेष्यत्वस्वी
कारेऽप्युक्तदोधतादवस्थ्यादेकम्य नाम्नस्त्रीण्येबाक्षराणीत्यादिरेवाथं: सिद्धयति ।
चतुरक्षरान्नर्गताक्षरश्रयस्यावयुन्यानुवादे वैयथ्यत् । एतेन अचाटू इति छलाक्ष
रमूत्रेऽचां षोडशसु सकेत । इयं च संख्याऽक्षरनिष्ठा, हल्भि हनता संग्य तु नाम
निष्ठ । ततश्च इत्यक्ते एक नाम यक्षरमित्यर्थ इति भ्रमी' निरस्तः । प्रकृते
वर्णकत्वादेवैक नामेत्यर्थस्य लाभात् । प्रथमं नामेति त वर्णप्राथम्यादेव सत्स्यतीत्यं .
शस्तु मूत्रंष्वत्रापि समान । नत्र चरणा यस्मिन्दावसम्हे स नवचरण । तस्य
नवधा विभज्य निदेशबलादेकैकस्य चरणस्यैकैकनामात्मकत्वं ध्वन्यते । नथाच
नवशाब्दोदिता संख्या नामस्बेवान्वेति नाक्षरेषु । अत्र नवशब्दान्नबत्वसंख्याया इव
नकारवकारोiदतदशचत:संस्ययोज्ञटिति न प्रतीति :। अतः प्रतीतिशैध्रयमान्ययाभ्यां
संख्यावाचकपदाक्षराणामिह संभूयैकार्थप्रत्यायकत्वमव । एकत्र च रणादिशाब्दसमव
घानमहिना संख्यावाचकशब्दानां नामधेयान्वितस्वार्थकत्वमेव नाक्षरान्वितस्वार्थक.
वमिति सिद्धे चरणादिविशेष्यसभर्पकपदाभावेऽपि नामान्वितस्वार्थकत्वं क्लप्त न
दण्डेन पराणुद्यते । 'एकत्र निर्णीतः शास्त्रार्थोऽसति बाधकेऽन्यत्रापी' ति न्यायात् ।
आदित्यः प्रायणीय: पयसि चरु 'रिति विधेरस्थालीवचनस्यापि बरुशब्दस्यादिति
मोदनेनेति वाक्यशषवशादोदनार्थकत्वे निषींते सौर्य चरुमित्यादौ वाक्यशेषाभावेऽप्यो
दनार्थकत्वानपायात् । ईदृशासांकार्यसिद्धयर्थमेव चाक्षारसंख्यायां वाच्यायां गुणादि

शब्दान्तराणामेव प्रयोगो न पुनर्नवदशादिसंख्यापदाक्षराणामिति व्यवस्थापि
1. नकारयोः, 2. चतूरस्थेयता. 3. तादथ्यत्मक, 4. जायत , 5. श्रमो