पृष्ठम्:श्रीललितासहस्रनाम.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
[फलश्रुतिः
ललितासहस्रनाम ।

कविषयक स्तोत्रान्तरेषु वव्याहतं ललिताशीतिकरवमित्याशङ्कामपाकुर्वनक्रमप्राप्तं
प्रीतिपदत्वं विवेचयति--इन मति । इतरस्तोत्रपठनजन्यप्रीतिमपेक्ष्यैतज्जग्या प्रति
विशिष्टेत्यर्थः । तेन प्रीति विशेषजनकत्वे सति रहस्यतमस्वमिहैवेति भावः । एते.
नाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिदादि के मंणामाय सतारसम्यसाध्यानामेक
जातो/यस्वर्गफलकीवयोगेन स्वर्गेषु तरतमभावकल्पनंपि पूर्वतन्त्रसिद्धम्यायदेव देव
ताप्रीतावपि बहुभिः स्तोत्रैः प्रातिपदिकजनितायां तारतम्यसिद्धे विशेषादियुक्त को
विशेष इति परास्तम् । इतोऽप्यधिक याससाध्यकर्मान्त रजनितायां देवताप्रीतावपि
तेन यथेमेंतोऽपि प्रत्याधिक्यप्राप्ते तस्मप्रस!ङ्क्षीदिन्यायेन विशेषपदोपादानस्य
साथंषयात् । अत एव च रहस्यमदमप्युपपद्यते । तस्मात्प्रकृष्टेनापि यनेन ललि
तोपासको यावज्जीवमिदं जपेदिर्यः ।। २३४ ।।

प्रातः स्नात्वा विधानेन संध्याकर्म समस्य च ।
पूकागूढं ततो गत्वा चतुराजं समर्चयेत् ।। २३९ ॥

जपकाले विधिमाह द्वाभ्याम्--प्रातरित्यदि स्याम् । विधानेन वै विकतान्त्रि

कोभयप्रकारेण । काकाक्षिन्यापेनास्य स्नानसंध्ययोरन्वयः। पूजगृहगमनं द्वारपूजा-
द्युपलक्षणम् । वीराज श्रीचक्रम् । समर्चयेदिति स्वार्थे णिच् । अशक्तौ प्रयोजक
कतृपरा व। २३९ ।।

विद्यां जपेत्सहनं वा त्रिशतं शतमेव वा ।
रस्नमसक्षेत्रमिव एकचस्पठेन्नरः ॥ २४० ॥

विद्यां पञ्चदश षोडशीं वा। नतु स्त्रीदेवस्यमन्त्रसामान्यम् । सहस्र वेत्यादिष्वष्टो

तरशतमिति शेषः । त्रिशतं शतत्रयं नतु व्युतरबातम् । नायं तुल्यबलो विकल्पः
किंतु पूर्वासंभवे परोऽनुकम्प इति द्योतयितुमेवकारः । पश्चात् विद्यजपपुष्पाञ्जलि-
दानयोर्मध्ये । अत एव जट्वा पुष्पाञ्जलि दद्यादिति कथितं तयोः पौवपर्य नान्य-
वहितम्, किंतु सहस्रममपाठेन व्यवहितमेव । वेदवेदिकरणयोरिव भुताचमनेन
वेदाध्ययनस्नानयोरित्र च मीमांसध्ययनेनेति भाव । अत्र प्रातः स्नात्वैरयादिः
सबोंऽपि विध्यन्सरप्राप्तानुवादः । सहस्रनामपाठे कलमात्रं तु विधेयम् । अत एव
जपाउयोनं परस्परमङ्गाङ्गिभावोऽपि । द्वयोरपि प्रतिस्विकविधिम्यां फलवतया
सहस्रनामकीर्तनस्यापि विध्यन्तरेणेव फलार्थतयाऽवगतस्वेन ‘दर्शपूर्णमासाभ्यामिष्यु
सोमेन यजेते' त्यादाविय कालर्थस्येय संयोगस्य निर्णयात् । स्नानादिप्रधानपञ्च-
कस्य क्रम एव वा विततिरूपो विधेयः। तेनन्यतमम्नधानाकरणेऽपि 'अनपायो हि
कालस्ये' ति ययेनाऽवैगुषयात्फलानुत्पत्तिरपास्ता ।। २४० ॥

अन्समध्ये सकृच्चापि य एवं पठते सुधीः ।
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुभसम्भवः। ।