सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XXIV

निर्यातीव पदाम्बुजान्मधुरिपोः सौतीव पद्मालयां
वेवेक्तीव पयोम्बुनी विहरति स्रष्टुर्मुखाब्जेष्विव।
किं च स्मेरयतीव कैरववनीं द्विष्टे करीन्द्रानिव
क्ष्मां मूर्ध्नेव बिभर्ति कीर्तिरमला श्रीभारतीयज्वनः ।। १०६ ।।

हीरति काञ्च्यां हारति चोलतटेऽङ्गेषु चन्दनाम्बवति।
कुन्दति कुन्तलदेशे कीर्तिर्गम्भीररायतनयस्य ।। १०७ ।।

कीर्त्या यस्य जगत्त्रये धवलिते सर्वे गजाः स्वर्गजाः
किंचोच्चैःश्रवसो हया नृपतयः सर्वेऽपि सीरायुधाः ।
नद्यः स्वः सरितोऽखिलाः फणभृतो दर्वीकराधीश्वराः
शैला हन्त हिमालया ववृतिरे सर्वे सुराः शङ्कराः ।। १०८॥

कुमुदं वर्धयन्पद्मोल्लासी कोऽप्येष भास्करः ।
दुन्दुभिं ध्वनयन्नुर्व्यां प्रमोदी दिनमानशे ।। १०९ ।।

वयसि चरमे लब्ध्वा सह्याद्रिजातटगेहितां
विदितनिखिलत्रय्यन्तार्थं चिदैक्यविभावनात् ।
महिममहति क्षेत्रे मध्यार्जुने शिवतां गतो-
ऽप्यमलवपुषा कीर्त्या जागर्ति शाश्वतिकेन सः ।। ११० ।।

अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तुं प्रगल्भेऽन्वये
सम्भूतो ननु बालकृष्णसचिवोत्तंसस्य रूपान्तरम्।
लक्ष्म्यम्बाहृदयाम्बुधेर्हिमरुचिः प्राज्ञैः प्रशस्यामिमां
प्राणैषीत्सुमतीर्यथामति जगन्नाथाभिघानः कृतिम् ।। १११ ।।

अब्दे प्रमोदसचिवे शब्दार्थपरिष्कृता कृता कृतिना।
भास्करविलाससंज्ञा भायाद्भुवने कृतिश्चिरायैषा।।। ११२ ॥

अनेन वागध्वरेण समाराद्धा कथंचन
दयतां देशिकात्मा मे देवी श्रीललिताम्बिका ।।। ११३ ।।

इति श्रीविश्वामित्रमहर्षिगोत्रपयोधिकैरवमित्रस्य
श्रीमद्भास्कररायभारतीदीक्षिताग्निचिदन्तेवासितासनाथस्य जगन्नाथस्य कृतिर्भास्करविलासकाव्यमिदं
भुवनाभोगाख्यं सम्पूर्णम्।