पृष्ठम्:श्रीललितासहस्रनाम.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

IX


अनेनैव केचन ग्रन्थाः स्वकीयः निरदेशिषत।। १. चण्डभास्करम्
२. वादकौतूहलम् ३. सिकरझनी ४. न्यायमण्डनम् ५. छन्द:कौस्तुभम्
६. मधुराम्लम् ७.शिवस्तवः ८. शिवदण्डकम् ९. शिवाष्टोत्तरशत
व्याख्यानम् १०. स्तुतितत्त्वम् ११. प्रदोषभास्करम् १२. तृचभास्करम्
१३. कुण्डभास्करम् १४. भवनोपनिषद्रष्यम् १५. श्रीसूक्तभाष्यम्
१६. कौलोपनिषद्रष्यम् १७. सेतुबन्धः १८. वरिवस्यारहस्यम् १९.
रत्रालोकः २०. देवीस्तवः २१. वरिवस्याप्रकाशः २२. श्रीललितासह
स्रनामभाष्यं सौभाग्यभास्करमिति केचन प्रसिद्धाः ग्रन्थाः भास्कर
रायस्य। येषु वरिवस्यारहस्यं, सौभाग्यभास्करं, सेतुबन्ध इति ग्रन्थ
त्रितयं श्रीविद्योपासकानां अत्यन्तमुपकुरुत इत्यत्र न कोऽपि संशति
लेशः ।

समकालिकाः


भास्कररायस्य समकालिकाः श्रीकडूमानन्दस्वामिन , नारायणभट्ट
उमानन्दनाथः, जगन्नाथः इत्यादयः । एतषु नारायणभट्ट
भास्कररायस्य प्रतिस्पर्धीं। अन्तिमौ तु तच्छिष्यौ।

लालिता सहस्रनाम


प्रायः सहस्रनामानि तद्देवताकानि तेषु तेषु पुराणेषु समुपल
भ्यन्ते । श्रीललितादेव्या नामसहस्रमपि ब्रह्माण्डपुराणात् संगृहीतम्।
देवीनामसहस्रमिदं ब्रह्माण्डपुराणोत्तरखण्डे त्रिष्वध्यायेषु विंशत्युत्तरत्र
शतश्लोकेषु अगस्त्याय हयग्रीवेण समुपदिष्टम्।

भाष्य़ाणि


श्रीललितानामसहस्रस्य पञ्च भाष्याणि समुपलभ्यन्ते । श्री
विमलानन्दनाथस्य शिष्येण श्रीविमशनन्दनाथेन कत भाष्य प्रथमम्।
श्री अनन्तारण्यशिष्यस्य विद्यारण्यमुनीश्वरस्य भाष्यं द्वितीयम्।
श्री भट्टनारायणस्य भाष्यं तृतीयम्। शङ्कराम्रा कृतं भाष्यं चतुर्थम्।