पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
27
रामेण भरतप्रार्थनानभ्युपगमः

 स भरतो महात्मानं–सत्यप्रतिज्ञत्वाद्यनेकधर्मैर्महान्-वैभववान् आत्मा यस्य तं सत्यपराक्रमं भ्रातरं रामं गत्वा-आर्यभावपुरस्कृतः-विनीतवेषपुरस्कृतस्सन् 'आर्यो हृद्यो विनीतश्च' इति निघण्टुः । तं रामं राज्याय प्रतिनिवर्तितुमयाचत् । [१]याचिद्विकर्मकः ॥ ३५ ॥

 त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।

 ननु कथं मे प्रतिनिवृत्तिः । पितृमातृदत्तराज्यं त्वमेव किलार्हसीत्यत्राह-त्वमेव राजेति ॥ ननु कथमेवमवधारणमित्यत्राह -धर्मज्ञ इति । ज्येष्ठे श्रेष्ठगुणैर्युक्ते कनीयान् राज्यं नार्हतीत्यनादिप्रवाहसिद्धं धर्मं त्वमेव जानासि । अतः प्रतिनिवर्तितव्यमेव इति न्यायमार्गोपेतं वचो रामं प्रत्यब्रवीत् ॥

 रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥ ३६ ॥
 न चैच्छत्पितुरादेशाद्रामो राज्यं महाबलः ।

 न च राज्यमैच्छत्तदा ॥ वनवासक्षोदक्षममहत्तरसहजकायबलवान्नामोऽपि राज्यं नैच्छत् । कुत इत्यतो हेतुचतुष्टयं-परमोदार इत्यादि । स्वसुखानादरेणाविगीतस्वसुखसाधनस्य परस्मै त्यागस्त्वौदार्यम् । एवं परमोदारत्वाद्राज्यसुखं बालो भरत एव भुङ्क्तामित्युपैक्षिष्ट । सुमुखः । भगवतो रामस्य राज्ये वने वा पादसंवाहनादिसकलबाह्यशुश्रूषायै लक्ष्मण एव । ऐहिकसकलसुखभोगाय राज्ये वने वाऽविशेषेण लोकमाता सीतैव । राज्ये तु प्रजाकार्यनिरीक्षणदुःखमभ्यधिकम् । वने तु तदभावः; योगजसन्तोषश्चाधिकः । अतोराज्याद्वनमेव नः परमं सुखं [२]दैवगत्या लब्धमिति धिया राज्यादपि वनेऽम्लानाभ्यधिकमुखप्रसादयुक्तः । अत उपेक्षिष्ट । सुमहायशाः-


  1. याचेर्द्विकर्मकत्वात्-ग.
  2. दैवालब्धं -ग.