पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
468
[बालकाण्डः
दशरथजनकसमागमः

 वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी ।
 राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात् ॥ ६ ॥
 गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
 राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥ ७ ॥

 चतुर्भिरहोभिस्साध्यगमनो मार्गस्तथा । दूतैस्त्रिदिनगतोऽध्वा चतुरङ्गबलोपेतप्रयाणत्वाच्चतुर्दिनमपेक्षते । श्रुत्वेति । दशरथागमनमिति शेषः ॥ ७ ॥

 ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।
 जनको मुदितो राजा हर्षं च परमं ययौ ।
 उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदाऽन्वितः ॥ ८ ॥
 स्वागतं ते, महाराज ! दिष्ट्या प्राप्तोऽसि राघव !
 पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥ ९ ॥

 पुत्रयोरुभयोः प्रीतिमिति । व्याकृतचरः । वीर्यनिर्जितामिति । रामवीर्यद्वारा सम्पादितामिति यावत् ॥ ९ ॥

 दिष्ट्या प्राप्तो महातेजाः वसिष्ठो भगवानृषिः ।
 [१]सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ॥ १० ॥

 शतक्रतुदृष्टान्तो वसिष्ठस्य पूर्णधर्मत्वे ॥ १० ॥

 दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।
 राघवैः सह[२]सम्बन्धो वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥


  1. अस्यार्धस्य 'स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव' इत्यर्धानन्तर्ये संगत्यतिशयः स्फुटः । स तु सुरेन्द्रः, अयं च भूसुरेन्द्र इति ।
  2. संबन्धात्-ङ.ज.