पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९ सर्गः]
467
वसिष्ठवामदेवाद्यास्त्वनुजग्मुर्मुदा नृपम्

अथ एकोनसप्ततितमः सर्गः
[दशरथजनकसमागमः]

 ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।
 राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ १ ॥

 अथ दूतैराहूतदशरथागमनम्-ततो रात्र्यामिति ॥ १ ॥

 अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।
 व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ २ ॥

 धनाध्यक्षाः–कोशरक्षाधिकृताः । सुविहिताः–सुसम्पादित-कल्याणोचितकर्माणः ॥ २ ॥

 चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः ।
 ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ ३ ॥

 यानयुग्यमिति । यानं–शिबिकान्दोळिकादि, युग्यं–अश्वादि, सेनाङ्गत्वादेकत्वम् । अनुत्तमानि यानानि युग्यानि च निर्यान्तु-वसिष्ठाद्यर्थमिति शेषः ॥ ३ ॥

 वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
 मार्कण्डेयस्सुदीर्घायुः ऋषिः कात्यायनस्तथा ॥ ४ ॥
 एते द्विजाः प्रयान्त्वग्रे, स्यन्दनं योजयस्व मे ।
 [१]यथा कालात्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥ ५॥

 प्रयान्त्वग्र इति । कल्याणप्रयाणत उत्तमयानयुग्वैरिति शेषः । दूताः–जनकमन्त्रिणः ॥ ५ ॥


  1. एतदनन्तरं 'इत्युक्त्वा स महातेजाः राजा दशरथो रथम् । आरुरोह यथा भानुः भगवान् रघुनन्दनः । इत्यधिकं-ङ.