पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१ सर्गः]
421
अनुनीतः सुरैः शान्तः, पुनस्तेपेऽथ कौशिकः

 अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।
 कृतार्थं कीर्तिमन्तं च[१]स्वर्गलोकगतं [२]यथा ॥ ३३ ॥

 एतानि त्वदीयानि यथा तथा अनुयास्यन्तीति योजना ॥ ३३॥

 विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।
 [३]ऋषिभिश्च महातेजा बाढमित्याह [४]देवताः ॥ ३४ ॥

 बाढमित्याहेति । देवतानां वाक्यानुवर्तनमेवास्माकं हितं, न दुराग्रहोऽनर्थहेतुरिति ज्ञात्वा देवतानां वचनं अन्ववर्ततेत्यर्थः ।

 ततो देवा महात्मानो मुनयश्च तपोधनाः ।
 जग्मुर्यथाऽऽगतं सर्वे[५]यज्ञस्यान्ते नरोत्तम ! ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्टितमः सर्गः

 मल्ल (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्टितमः सर्गः


अथ एकषष्टितमः सर्गः

[शुनश्शेफोपाख्यानोपक्रमः]

 विश्वामित्रो महात्माऽथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
 अब्रवीन्नर[६]शार्दूल ! सर्वांस्तान् वनवासिनः ॥ १ ॥


  1. ब्रह्मलोक-ङ.
  2. तथा-ङ च
  3. ऋषिमध्ये-ङ.
  4. देवता इति द्वितीयाबहुवचनान्तम् ।
  5. यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमान-प्रतिनिधिं कृत्वा यज्ञः समापितः, देवैः भागश्च गृहीत इति गम्यते-गो. यज्ञस्य-विश्वामित्रसमापितयज्ञस्य अन्ते जग्मुः-शि.
  6. शार्दूलः-ङ