पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः ]
339
तया संप्लावितास्पर्वे सागराः सद्गतिं ययुः

 गङ्गां पुनर्नेतुं प्रार्थयताऽपि सा पुनर्नेतुं न शकिता सौ नामतेतस्येद्यत्वट् । अशक्या भूदित्यर्थः । [१]कश्चित् शङ्कितेति मृषोक्तिव्याख्याने प्रायतिष्ट । तथाऽग्रेपि ॥ ११ ॥

 सा त्वया [२]समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ !
 प्राप्तोऽसि परमं लोके यशः परमसंमतम् ॥ १२ ॥

 समनुक्रान्ता-समनुतिष्ठितपारा ॥ १२ ॥

 यच्च गङ्गावतरणं त्वया कृतमरिन्दम् !
 अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ १३ ॥
 प्लावयस्व त्वमात्मानं नरोत्तम ! सदोचिते ।
 सलिले, पुरुषव्याघ्र ! शुचिः पुण्यफलो भव ॥ १४ ॥

 प्लावयस्वेत्यादिरुपसंहारेण वादः । अत्मानं त्वद्देहं । सदोचित इति । कर्कटकनध्येऽपि स्नानोचिते; भूप्रभवनदी नामेव तत्काले भौमत्वमूलरजस्सम्बन्धात् स्नानाद्यनर्हत्वम् । पुण्यफल इति । [३]मत्वर्थीयोऽजन्तः ॥ १४ ॥

 पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
 स्वस्ति तेऽस्तु, गमिष्यामि स्वं लोकं, गम्यतां नृप ! ॥ १५ ॥

 स्वं लोकं गमिष्यामि इति । त्वया च गम्यतां स्वपुरं, कृतोदकक्रियेणेति शेषः । अयं नियोगो राजधर्मपरिपालनाय ॥ १५ ॥

 इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
 यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशाः ॥ १६ ॥
 भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
 यथाक्रमं यथान्यायं सागराणा महायशाः ॥ १७ ॥


  1. महेश्वरतीर्थः गोविन्दराजो वा
  2. समतिक्रान्ता-ङ.
  3. बहुव्रीहिर्वा-ति.