पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
285
एवं श्रुत्वा कथास्ते तु मुनिं साध्वित्यपूजयन्

 उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः ।
 ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ! ॥ १७ ॥

 उत्तिष्ठतीति । 'उदोऽनूर्ध्वकर्मणि' इति निषेधादात्मनेपदाभावः । तमो नुदतीति-तमोनुदः, उपधालक्षणः कः ॥ १७॥

 नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
 यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ १८ ॥

 निशायां प्रभवानि नैशानि । 'प्रभवति' इत्यण् ॥ १८ ॥

 एवमुक्त्वा महातेजा विरराम महामुनिः ।
 साधु सध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ १९ ॥

 अभ्यपूजयन्। अस्तुवान्नति यावत् ॥ १९ ॥

 कुशिकानामयं वंशो महान् धर्मपरः सदा ।
 ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ २० ॥

 तस्यैव प्रकारविशेषः-कुशिकानामित्यादि । गाधेः कुशिक इति नामान्तरम् । कुशिकस्य गोत्रापत्यं, 'अनुष्यानन्तर्ये' इत्यादिना अञ्, तस्य बहुषु यञञोश्च' इति लुक्, कुशिकानां-तद्गोत्रजानामित्यर्थः । ब्रह्मोपमा इति । ब्रह्मर्षितुल्या इति यावत् ॥ २० ॥

 विशेषेण भवानेव विश्वामित्रो महायशाः ।
 कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ॥ २१ ॥

 भवानेवेति । महात्मेत्यनुकर्षः ॥ २१ ॥