पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
282
[बालकाण्डः
विश्वामित्रवंशवर्णनम्

सशरीरतया स्वीयब्रह्मलोकप्रत्यापत्तिरुक्ता । अयमर्थ इदानीन्तनानामपि ब्रह्मांशावताराणां अविशिष्टः ॥ ४ ॥

 कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः ।
 जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ ५ ॥

 कस्य चित्त्वथ कालस्येति । अत्ययानन्तररामिति शेषः । गाधिरित्येव नामत इति । यथा पित्रा कुशेनोक्तं तेनैव प्रकारेणेत्यर्थः ॥

 स पिता मम काकुत्स्थ ! गाधिः परमधार्मिकः ।
 कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ! ॥ ६ ॥

 ममेति । अस्मदर्थो विश्वामित्रः । कुशवंशप्रसूत इति यतः अतः कौशिकोऽस्मि । अपत्यादित्वादापत्यष्ठक् । एवं स्थिते मिथ्याप्रक्रियाः बह्वजल्पत् शाब्दिकमानी कश्चित् ॥ ६॥

 पूर्वजा भगिनी चापि मम राघव ! सुव्रता |
 नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ ७ ॥

 पूर्वजेति। न केवलमहं गाधेरेकः पुत्रः; मम पूर्वजा ज्येष्ठा भागनी चास्ति । ऋचीके प्रतिपादितेति । ऋचीकाय दत्तेति यावत् ॥

 सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
 कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ ८ ॥
 दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।
 लोकस्य हितकाम्यार्थंं प्रवृत्ता भगिनी मम ॥ ९ ॥

 सशरीरा स्वर्गं गतेत्यत्र साधनोपदेशः-भर्तारमनुवर्तिनीति । किमुक्तमेतेन अनुमरणं कृतवतीत्येव । अपि चान्यदप्यस्ति तस्याश्च-