अथ चतुस्त्रिंशः सर्गः
[विश्वामित्रवंशवर्णनम्]
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव !
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥
अथ प्रकृते किं ततः इत्यतः-कृतोद्वाह इत्यादि । अपुत्र इति । पूर्वं कन्याशतमात्रस्यैव लाभात् । पुत्रार्थेयं पौत्री ॥ १ ॥
इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥
कुशः-कुशनाभस्य पिता ॥ २ ॥
पुत्र ! ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।
गाधिं प्राप्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥
किमुवाचेत्यतः-पुत्रेत्यादि । हे पुत्र कुशनाभ ! ते-तव सदृशः सुधार्मिकः पुत्रो भविष्यति, पुत्रीयेष्टिसमाप्त्यनन्तरं किञ्चित्कालात्परं भविष्यति, न तु द्रौपद्यादिवत् तत्कालम् । हे पितः ! कोऽसौ मया प्रापणीयपुत्रः ? इत्यतः-गाधिमिति । गाधिं-गाधिनामानं पुत्रं प्राप्स्यसि; तेन च गाधिना शाश्वतीं-शश्वद्भवां, अण् बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्वचिन्न, ततो ङीष् कीर्तिं प्राप्स्यति ॥ ३ ॥
एवमुक्त्वा कुशो राम ! कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥
एवमुक्ता कुशः आकाशमाविश्य ब्रह्मलोकं जगाम । एतेन रामवत् कुशस्यापि ब्रह्मपुत्रावतारत्वनिरतिशयवैभवतः पुत्रानुग्रहपूर्वं