पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
278
[बालकाण्डः
कुशनाभकन्यापारणयः

 लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
 ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥

 ब्राह्म्या लक्ष्म्या-श्रीमूलब्रह्मविद्याजानतया लक्ष्म्या, ब्रह्मवर्चसेनेति यावत्, समुदितः अत एव ब्रह्मभूतः- अकृतकभगवदनन्यताब्रह्मयोग-सिद्ध, अपि च महातपाः-कृच्छ्रचान्द्रायणादिवायुभक्षतपोयुक्तो यः पुत्रो भवति तादृशं ; अपि च विशिष्य ब्राह्मेण-ब्रह्म-स्वाध्यायः तत्सम्बन्धिना तदभ्यासरूपेण सर्वमूलेन 'तपो हि स्वाध्यायः' इति प्रसिद्धेन तपसा युक्तं पुत्रमिच्छामि ॥ १६॥

 अपतिश्चास्मि, भद्रं ते, भार्या चास्मि न कस्यचित् ।
 ब्राह्मणोपगतायाश्च दातुमर्हसि मे सुतम् ! ॥ १७ ॥

 अपि च भगवन् । अहं अपतिश्चास्मि । इतः परमपि न कस्यचित्भार्याऽस्मि । तथाऽपि मे यथा पुत्रप्राप्तिस्तथा ते मयि भद्रं-अनुग्रहोऽस्तु । एवं ब्रह्मयोगिनं त्वां ब्राह्मणैव योगेन भगवदनन्यतालक्षणेनोपगतायास्तदुचितमेव च सुतं दातुमर्हसि-न हि विराज इव भगवतो हिरण्यगर्भस्य यौनः पुत्रोऽस्ति ॥ १७ ॥

 तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।
 ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥

 एवं शुद्धब्रह्मनिष्ठायाः तस्याः प्रसन्नः चूलिनः-फली फलिन इत्यादिवत् चूली चूलिन इति इनजन्तः । अन्यः चूलिक इति पठितव्यमिति निरबध्नात् । चूलिनो महर्षिः तथाविधं-यादृग्गुणको वृतः तादृग्गुणकं ब्रह्मयोगवैभवेन ब्रह्मर्षिणा मनसा दत्तत्वात् ब्रह्मदत्त इति ख्यातं मानसं सुतमंदात् ॥ १८ ॥