पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ सर्गः]
213
उपादिशत् तयोर्विद्यां बलामतिबलां मुनिः

 नृपतेरिति ! पुत्रकेति शेषः । अधीयाने त्वयि पथि क्षुत्पिपासे न भविष्येते इति योजना । अपि च यशश्चातुलं भुवि भविष्यति इति शेषः ॥ १७ ॥

 पितामहसुते ह्येते विद्ये तेजस्समन्विते ।
 प्रदातुं तव काकुत्स्थ ! सहशस्त्वं हि धार्मिक ! ॥ १८ ॥

 एवं वैभवः कुतः तयोरित्यत्राह-पितामहेत्यादि । एते तव-ते प्रदातुं योग्ये । धार्मिकस्त्वं हि सदृश इति । ब्रह्मपुत्रौ, प्रागुक्तब्रह्मपुत्रांश्च प्रदातुं त्वं हि पात्रं, ब्रह्मांशत्वात् । [१]अत एव तत्प्रदानोचितपरधर्मवत्वाच्च ॥ १८ ॥

 कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।
 तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥

 अपि च । एते इति व्यत्ययात्प्रथमा, एतयोः सम्प्रदानयोग्याः सर्वे बहुगुणाः त्वयि सन्त्येव, नात्र संशयः । अतो मम तपसा सम्भृते-प्राप्ते एते त्वयि कामं-अभ्यधिकं बहुरूपे-बहुवर्यविलासवैभवे भविष्यतः । न चात्र संशयः ॥ १९ ॥

 ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।
 प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ २० ॥

 जल स्पृष्ट्वा-आचम्य ॥ २० ॥

 विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।
 सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥


  1. अत एतत्-ग.