पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[बालकाण्डः
विश्वामित्रेण विद्योपदेशः

 अथ बलातिबलयोरेव विशिष्य फलोपदेशः-न श्रम इत्यादि । बहुदूरगमनादावपति शेषः। ते-तव । रूपविपर्ययः-वैवर्ण्यम् । प्रमत्तं-क्रीडाव्याक्षिप्तचित्तम् । धर्षणं-अभिभवः ॥ १३ ॥

 न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।
 [१]त्रिषु लोकेषु वा राम! न भवेत् सदृशस्तव ॥ १४ ॥

 पृथिव्यामस्तीति। वर्तमानसामीप्ये भविष्यति लट् । न भविष्यति इति यावत् । न केवलं पृथिव्यां ; अपि तु त्रिष्वित्यादि ॥ १४ ॥

 न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
 नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ! ॥ १५ ॥

 [२]सौभाग्ये इत्यादिकं पदम् । ज्ञानं-तत्त्वज्ञानम् । बुद्धिनिश्चयः ऐहिकविषयः ॥ १५ ॥

 एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।
 बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १६ ॥
 क्षुत्पिपासे न ते राम! भविष्येते नरोत्तम !

 मातराविति । 'बुभुक्षितं न प्रतिभाति किञ्चित्' इति न्यायेन सर्वाप्रतिभामूलक्षुधादिनिवृत्यसाधारणसामर्थ्यात् ॥ १६ ॥

 [३]विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ॥ १७ ॥


  1. एतदनन्तरं-बलामतिबलां चैव पठतस्तव राघव । इदमधिकं-ङ.
  2. 'सौभाग्येन' इत्यादिरीत्या तृतीयान्तत्वभ्रमनिरासायेदमुच्यते ।
  3. एतदनन्तरं-बलामतिबलां चैव पठतः पथि राघव । गृहाण सर्वलोकस्य गुप्तये रघुनन्दन ॥ इदमधिकम्-ङ. नृपतेस्त्वय्यधीयाने यशश्चाप्यतुलं भुवि' इत्यपूर्वः पाठो व्याख्यातुसम्मत इव भाति ॥