पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः ]
137
वसिष्ठः प्रार्थितो राज्ञा सर्वे सज्जं चकारः सः

 ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।
 स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ ६ ॥

 स्थापत्ये-स्थपतिः-रथकारः, तस्य भावः कर्म वा स्थापत्यम्, तत्र निष्ठिताः । कर्मप्रतिपादकमधमत्यादिशास्त्रे निष्ठिता इति यावत् ॥

 कर्मान्तिकान् शिल्पकरानू वर्धकीन् खनकानपि ।
 गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

 कर्मणामन्तः-समाप्तिर्यैस्ते तथा, 'अत इनि ठनौ' इति ठन्, भृतकानिति यावत् । शिल्पं-चित्रादि । वर्धकीन्-सामान्यतक्षाशिल्पिनश्चर्मकारादयः । नटनर्तकानिति । सूत्रधारा नृत्तकर्तारश्चेत्यर्थः ॥

 तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
 यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

 समीहन्तामिति । अब्रवीदिति पूर्वेणान्वयः ॥ ८ ॥

 इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
 औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९॥

 इष्टकेति जात्या । बहुसाहस्री-बहुसहस्रसङ्ख्येया | उपकार्याराजसद्म, 'सौधोऽस्त्री राजसदनमुपकार्योपकारिका' इति निघण्टुः । स्वार्थिकोऽण् । बहुगुणान्विताः-बह्वन्नपानाद्युपकरणयुक्ताः ॥ ९ ॥

 ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
 भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

 सुनिष्ठिताः-महावातवर्षादिनिवारणक्षमतया सुप्रतिष्ठिताः ॥ १० ॥