पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
38
[बालकाण्डः
वालिवधः; सीतान्वेषणम् ; हनुमता समुद्रलङ्घनं च

 अनुमान्य तदा तारां सुग्रीवेण समागतः ।
 निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६९ ॥

 तदाऽङ्गदमुखादवगतसुग्रीवरामसहायं, अत एव संयुगनिर्गमनं वारयन्तीं तारां-स्वस्त्रियं 'मयाऽकृतापकारो रामो मह्यं नापकरिष्यति' इति वचनेनानुमान्य-अनुमतिं करोति, तामनुमानयति । मानयतेः क्त्वाया ल्यप् । 'गतिबुद्धि-' इत्यादिना तारायाः कर्मत्वम् । कृतानुमतिकां कृत्वेत्यर्थः । सुग्रीवेण वाली युद्धाय समागतोऽभवत् । तत्र संयुगे एनं 'वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः' इत्येवंरूपात्सुग्रीववचनात् राघवः एकेनैव शरेण निजघान । अत्र सुग्रीववचनस्य हननप्रयोजकत्वकथनमनपकारिवालिवधस्यायुक्तत्वेऽपि मित्रापकारित्वेन हननमिति द्योतनायानुवादरूपम् ॥ ६९ ॥

 ततस्सुग्रीववचनात् हत्वा बालिनमाहवे ।
 सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ७० ॥

 तत इत्यादि । एवं सुग्रीववचनादाहवे वालिनं हत्वा राघवः सुग्रीवमेव तस्य वालिनो राज्ये प्रत्यपादयत्-प्रतिष्ठापितवान् ॥ ७० ॥

 स च सर्वान् समानीय वानरान् वानरर्षभः ।
 दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ७१ ॥

 स च दिशः-सर्वा दिशः प्रति, दिदृक्षुः - अन्वेषिषुरिति यावत् ॥ ७१ ॥

 ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
 शतयोजनविस्तीर्ण पुप्लुवे लवणार्णवम् ॥ ७२ ॥