पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

viii एवं भरतस्य सद्गुणान् वीक्ष्य यथा रामो विस्मयाक्रान्तोऽभवत्, तथा रामभरतयोरुभयोरपि सद्गुणान् वीक्ष्य सर्वेऽपि विस्मय मापेदिरे इति वदत्यादिकविः, स्वयमपि विस्मयमापन्नः सन्- 'तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ' * इति ॥ राजवंशजानां स्वभाव श्रीराम एव एवं वर्णयति- 'अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः । व्यसनेषु प्रहर्तारः .॥ एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः' | इति ॥ इममादिकवेराशयं वरकविः कालिदासः एवं स्पष्टयति- 'दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनवो हि यत्' । इति । अत्र 'यत्' शब्दस्य राज्यमर्थः । राज्यहेतोः सर्वमप्यकृत्यं बुद्धिपूर्वकमेव कर्तुं सन्नद्धता राजवंशजानां सहजा एवं सति स्वयं प्राप्तमपि राज्यं भरतः नाङ्गीकरोति स्म। एवं भरतेन प्रत्यर्पितं निष्कण्टकमपि राज्यं रामोऽपि नाङ्गीचकार हि । प्रत्युत, परस्परं राज्यत्यागाय विचित्रा युक्ती: अन्वेषेते किल-इति विचित्रमेव राजकुलवृत्तान्तं जानताम् ॥ अथवा युक्तमेवेदं रघुकुलजानां सहजत्यागशीलानाम् । श्रीरामोऽपि 'राघवः' इति यन्नाम्नोपलाल्यते, तमिमं रघुं राम- पूर्व जमधिकृत्य एतादृश एव कश्चन विचित्रप्रसङ्गः प्रस्तुतः वरकविना कालिदासेन रघुवंशे पञ्चमसर्गे- महामना रघुः विश्वजिद्यागे स्वीयं सर्वमप्यर्थ सत्पात्रेभ्यो वितीर्य शरीरमात्रावशेषः यदा तिष्ठति, तदा वरतन्तुमहर्षेशिशष्यः कौत्सः गुरवे देयां चतुर्दशकोटिमितां दक्षिणां रघोः सकाशात् प्रेप्सुः तमुपसर्पति। रघुस्तु गत्यन्तराभावात् कुबेरादेव तावद्वित्तं बलादाहतु ★ रामा. अयो. 112-1. †रामा. युद्ध, 18-10, 11. + रघुवंश-8-2. § रघुवंश- ५ सर्ग-१-३० श्लो.