पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ix यदा संकल्पयति, तदैव कुबेर: रघोः कोशागारं वित्तवर्षेण पूरयामास ॥ तच्च ज्ञात्वा रघुः कौत्समाहूय 'गृह्यतामिंद सर्व भवदीयं वित्तम्' इति वदति । कौत्सस्तु 'चतुर्दशकोटय एव मया याचिताः । तदधिकं नाहं गृह्णीयाम्' इति वदति । रघुस्तु 'भवदर्थमागतत्वात् सर्व भवदीयमेव । अतो भवतैव ग्राह्यम्' इति निर्वन्धयति । एवं त्यागे परस्परं स्पर्धमानौ तौ वीक्ष्य तत्रत्या जनाः विस्मिता बभूवुरिति सरसैरक्षरैरेवं रञ्जयति सहृदयान्तरङ्गाणि वरकविः- जनस्य साकेतनिवासिनस्तौ द्वावण्यभूतामभिनन्यसत्त्वौ । गुरुप्रदेयाधिकनिस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च *इति ।। युज्यत एव हि एतादृशस्य रघोः कुले जातयोः रामभरतयोः त्यागे परस्परस्पर्धा | ( परन्त्वत्र सन्दर्भविशेषवशात् भरतः राममप्यतिशेत इव किञ्चित् । यदा भरतश्चित्रकूटमागत्य रामं राज्यस्वीकाराय निर्बन्धयति, तदा रामः 'तुभ्यं राज्यस्य, मह्यं वनवासस्य च पित्राऽऽदिष्टत्वात् उभाभ्यां तत्परिपालनीयमेव' इति वदति ।। भरतस्तु 'सत्यं पितृवचनमध्यहं परिपालयाम्येव । तेन दत्ते मदीये राज्ये मम हि पूर्णोऽधिकारः । अहमेव बुद्धिपूर्वकं राज्यं तुभ्यं ददामि। को वाऽत्र धर्मलोपः' + इति पृच्छति भ्रातरं रामम् । एवञ्च चतुरेण भरतेन पितृवाक्यमपि परिपालितम्, स्वेष्टमपि साधि- तम् । अतोऽस्मिन् प्रकरणे भरतो रामं जिग्य एव, यस्य च निदर्शनं रामेण राज्याय स्वपादुकाप्रदानम् | अत एव भासोऽपि भरतं एवं परिचाययत्यस्माकं-

  • रघुवंश-5-31. + ' त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसंस्कृतम् ।

वस्तव्यं दण्डकारण्ये मया वल्कलवाससा' अयो. 104-23, 'पित्रा दत्तं यथाभागं उपभोक्तुं स्वमर्हसि ।' 104-25. + 'सान्त्वता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं भुङ्क्ष्व राज्यमकण्टकम् ' अयो, 105-4.