पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
46
[अयोध्याकाण्डः
ऋषिकुमारवधाख्यानम्

अविज्ञाय फलं यो हि [१] कर्म त्वेवानुधावति ।
स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ ९ ॥

 किंशुकदृष्टान्तं दार्ष्टान्तिके योजयति –अविज्ञायेत्यादि । फलमिति । क्रियमाणकर्मणो भाविफलमित्यर्थः ॥ ९ ॥

[२]सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम् ।
रामं फलागमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥ १० ॥

 कर्मणो वा प्रागुक्तस्य तथा प्रागुक्तलौकिकार्थस्य वाऽस्तु तत प्रकृते किमायातमित्यत्राह – सोऽहमित्यादि । फलागम इति । पारलौकिककालान्तरभाविफलप्राप्तावाम्रवत् वर्धितमिति शेषः ॥ १० ॥

लब्धशब्देन, कौसल्ये ! कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ ११ ॥

 अथ ‘यदाचरति' (श्लो-६) इत्याद्युक्तलोकस्थितिफलमाहलब्धशब्देनेत्यादि । हे कौसल्ये ! कुमारेण धनुष्मता, कुमारः - अजकुमारः दशरथः शब्दवेधीति लोके लब्धशब्देन - लब्धकीर्तिना मया इदं वक्ष्यमाणरूपं पापं कृतम् ॥ ११ ॥

तदिदं मेऽनुसंप्राप्तं, देवि ! दुःखं स्वयं कृतम् ।
[३]संमोहादिह बालेन यथा स्यात् भक्षितं विषम् ॥ १२ ॥

 ननु बाल्ये, तत्राप्यज्ञानात् कृतस्य कर्मणः कथमेव फलं प्राप्तमित्यत्र दृष्टान्तबलेन बोधयति -- सम्मोहादित्यादि । संमोहादिह


  1. स्वकर्मानुगुणमेव धावतीत्यर्थः ।
  2. आम्रवणं छित्वेत्यनेन अभिषेकविघातपूर्वकरामविवासनं लक्ष्यते । पलाशांश्च न्यषेचयमित्यनेन कैकेयीप्रियकरणं लक्ष्यते-गो. वस्तुतस्तु - वक्ष्यमाणशब्दवेधमूलकमुनिकुमारवधेऽयं दृष्टान्तः । स्पष्टमिदं १३ श्लोके ।
  3. सस्नेहादिव बाल्येन-ङ.