पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३ सर्गः]
45
तदा दशरथः पूर्ववृत्तं स्मृत्वैवमब्रवीत्


यदाचरति, कल्याणि! शुभं वा यदि वाऽशुभम् ।
तदेव लभते, भद्रे ! कर्ता कर्मजमात्मनः ॥ ६ ॥

 स्वकृतक्रूरकर्ममूलमेव ईदृशं दुःखं स्वस्येति वदिष्यन् लोकस्थितिं दर्शयति — यदित्यादि । तदेव लभते, तल्लभत एव च ॥

[१] गुरुलाघवमर्थानां आरंभे कर्मणां [२]फलम् ।
दोषं वा यो न जानाति स बाल इति होच्यते ॥ ७ ॥

 अर्थानां - ऐहिकप्रयोजनानां, कर्मणां - आमुष्मिकप्रयोजनानां च अनुष्ठीयमानानां फलं प्रति गुरुलाघवं – केनचिदल्पेन इत्यादिकर्मणा महदनिष्टफलं, क्वचित् महताऽपि यागादिना परिमितस्वर्गफलं इत्येवमादिरूपेण, तथा दोषं गुणं वा - इदं कर्म अल्पदोषं बहुगुणं इदं तु बहुदोषमल्पगुणमित्येवमादिकं यो न जानाति, स एव बाल इत्युच्यते, न स्तनन्धयः ॥ ७ ॥

[३] कश्चिदाम्रवणं छित्वा पलाशांश्च निषिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ८ ॥

 आम्रवणं छित्वेति । पलाशोपरोधनिवृत्त्यर्थमिति शेषः । पुष्पं दृष्ट्वेति । प्रस्फुटस्थूलपुष्पत्वात् महत् फलमतो भविष्यतीति बुध्वेत्यर्थः ॥


  1. कर्मणामारंभे-आरंभसमये अर्थानां - फलानां गुरुलाघवं-गुरुत्वं लघुत्वं च, फलं
    दोषं वा फलं फलहानिं वा, यद्वा सुखरूपतां दुःखरूपतां वा, यो न जानाति - गो.
    'सुखं' इति पाठेतु कर्मणामारंभे अर्थानां गुरुलाघवं, सुखं दोषं-दुःखं वेति स्वरसः
    अर्थः । फलमिति पाठेऽपि फलपदं गुणपदवत् सत्फलपरम् ।
  2. सुखम्--ङ.
  3. लोके कश्चित्पुरुषः पुष्पं दृष्ट्वा फले गृध्नुः - साभिलाष: सन् अधिकवर्णमहापुष्पवश्वात् तदनुगुणमहाफलं
    भविष्यतीति साभिलाषः इत्यर्थः, आम्रवणं चूतवनं अल्पनिर्वर्णपुष्पकं छित्वा पलाशोपरोधपरिहारार्थं छित्वा, पलाशांश्च - किंशुकानेव निषिञ्चति--जलसेचनादिना पोषयति सः फलागमे - फलप्राप्तिकाले सति अनुपभोग्यफलदर्शनात् शोचति - गो.