पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
42
[अयोध्याकाण्डः
कौसल्याप्रसादनम्

 पत्या याच्यमानत्वसंपादकं कर्म कुलस्त्रीणां परमनिन्देत्याह- नैषा हीत्यादि । सैषा हि न स्त्री भवति – कुलस्त्री न भवति । हे वीर ! उभयोर्लोकयोः श्लाघनीयेन पत्या या संप्रसाद्यते ॥ १३ ॥

जानामि धर्म, धर्मज्ञ ! त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ १४ ॥

 किमपि भाषितम् । अनुचितमेव भाषितमित्यर्थः ॥ १४ ॥

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ १५ ॥

 शोकस्त्वेवमद्यानुचितव्यवहारप्रवर्तनसमर्थ इत्याह — शोक इत्यादि ॥ १५ ॥

शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः ।
[१] सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते [२] ॥ १६ ॥

 सुसूक्ष्मोऽपि शोकः सोढुमशक्यः, किमु मे महानिति शेषः ॥

वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ १७ ॥

 स्वकं महाशोकमेव दर्शयति – वनवासायेत्यादि । वनवासं कर्तुं प्रस्थितस्य वने पञ्चरात्रः वासोऽत्र गण्यते । आगङ्गं देशत्वात् गङ्गोत्तरणानन्तरं प्रयागयमुनाचित्रकूटेषु रामवृत्तान्तपरिज्ञानाय गुहेन


  1. आपतितः - हठात् प्राप्तः -- गो. पूर्वार्धे 'रिपुहस्ततः' इति कथनात्
    सुसूक्ष्मंशोकस्य अप्रतीक्षितत्ववत्, स्वजनात् प्राप्तत्वं, अविमर्शात् प्राप्तत्वं चाभिमतम् ।
  2. एतदनन्तरं 'धर्मज्ञाः श्रुतिमन्तोऽपि छिन्नधर्मार्थसञ्चयाः । यतयो वीर मुह्यन्ति
    शोकसम्मूढचेतसः ॥' इत्यधिकं - ङ.