पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२ सर्गः]
41
प्रसाद्यमाना भर्त्रा सा कौसल्याऽभूत् सुलज्जिता


तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजत् बाष्पं प्रणालीव [१] नवोदकम् ॥ १० ॥

 प्रणाली-प्रासादादौ जलनिर्गमकॢप्तदारुविशेषः ॥ १० ॥

सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् ।
संभ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ ११ ॥

 त्रस्ता-बत ! ममापि कैकेयीस्वभावः सर्वलोकनाशकः, पतिशोककारिवचनादिकं प्राप्तमिति भीतेत्यर्थः ॥ ११ ॥

प्रसीद शिरसा याचे भूमौ निपतिताऽस्मि ते ।
[२]याचिताऽस्मि हता, देव ! [३]हन्तव्याऽहं न हि त्वया ॥


 भूमौ निपतिताऽस्मीति । साष्टाङ्गं प्रणमामीति यावत् । हे देव ! त्वया याचिता अहं हताऽस्मि । ईश्वरेणेशितव्यवैपरीत्यं परमान्याय्यं किल, अतोऽहं हताऽस्मि । अतः त्वया हन्तव्या न हि- प्रहर्तव्या न हि ? एतदपराधशान्तये मत्प्रहार एव भवता कर्तव्यः, दास्या इवेत्यर्थः ॥ १२॥

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
[४]उभयोर्लोकयोः, वीर! पत्या या संप्रसाद्यते ॥ १३ ॥


  1. नवोदकमिति बाष्पस्य कलुषितत्वं सूचयति । द्वित्रवारवर्षानन्तरं तु प्रासादस्य शुद्धत्वात् न तावत्कालुष्यं स्यादिति भावः ।
  2. प्रथममेव पुत्रशोकहता, पुनरपि अञ्जलिबन्धनादिना न इन्तव्या । अथ वा प्रसादनोक्त्या पूर्वं हता, वा ।
  3. क्षन्तव्या-ङ.
  4. सा स्त्री उभयोर्लोकयोर्न भवति - गो.