पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२ सर्गः]
39
एवं वदन्तीं तां राजाऽसान्त्वयत् साञ्जलिस्तदा

ततः स शोकं प्रविवेश पार्थिवः
 स्वदुष्कृतं चापि पुन[१]स्तदा स्मरन् ॥ २६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकषष्टितमः सर्गः


 सः पार्थिवः शोकं प्रविवेश- गतवान् । स्वं दुष्कृतं–वक्ष्यमाणम् । तरु(२६)मानः सर्गः ॥२६॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे एकषष्टितमः सर्गः


द्विषष्टितमः सर्गः [कौसल्याप्रसादनम्]

[२] एवं तु क्रुद्धया राजा राममात्रा सशोकया
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १ ॥

 एवं कौसल्या स्वक्रूरवचोभीतस्य राज्ञः अञ्जलिपर्यन्तदैन्यं दृष्ट्वा अहमपि द्वितीया कैकेयी जाताऽस्मीति भीता राजानमनुनयति । एवन्त्वित्यादि । चिन्तयामासेति । अनयोच्यमानं सत्यं, किमिह कर्तव्यमिति चिन्तितवानित्यर्थः ॥ १ ॥

चिन्तयित्वा स च नृपः मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन संज्ञामाप परन्तपः ॥ २ ॥
स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्वसन् ।
कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ ३ ॥


  1. स्तथाऽस्मरत्-च.
  2. पूर्वसर्गान्तिमश्लोकोक्तार्थ एव पञ्चभिः श्लोकैः विव्रियते ॥