पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
38
[अयोध्याकाण्डः
दशरथोपालंभः

गतिरेका पतिर्नार्याः द्वितीया गतिरात्मजः ।
तृतीया ज्ञातयः, राजन् ! चतुर्थी नेह विद्यते ॥ २३ ॥
[१] तत्र त्वं चैव मे [२] नास्ति रामश्च वनमाश्रितः ।
न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ २४ ॥

 एवञ्च अहमेव हतेत्याह — द्विजातीत्यादि । शास्त्रदृष्टः द्विजातिभिः-त्रैवर्णिकैः चरितः सनातनो धर्मो यदि तेऽस्ति, तदा तु त्वया धार्मिकः पुत्रः न विवासनीयः । एवं धर्ममुपेक्ष्य त्वया धर्मनिरते पुत्रे विवासिते सति 'गतिरेकः पतिः' इत्यादिशास्त्रोच्यमानाः याः गतयः सन्ति, तासु गतिषु प्रथमगतिभूतस्त्वं च मम नास्त्येव ; सपत्नीवशगत्वेन त्वच्छुश्रूषाया मे दुर्लभत्वात् । रामश्च द्वितीयगति- भूतः वनमाश्रितः ; न च तत्प्राप्तये वनं गन्तुमिच्छामि, सपतिकत्वात् । हि-यस्मादेवं, तस्मात् सर्वथा त्वया हता ॥ २२-२४ ॥

हतं त्वया राज्यमिदं सराष्ट्रं
 [३] हतस्तथाऽऽत्मा सह मन्त्रिभिश्च ।
हता सपुत्राऽस्मि हताश्च पौराः
 [४]सुतश्च भार्या च तव प्रहृष्टौ ॥ २५ ॥

 सुतश्च भार्या चेति । केवलं कैकेयीभरतावेव प्रहृष्टावित्यर्थः ॥

[५]इमां गिरं

दारुणशब्द[६]संश्रितां
 निशम्य [७]राजाऽपि मुमोह दुःखितः ।


  1. तत्र त्वं मम नैवासि-ड.
  2. नास्ति-नासि । अथ वा विधेयप्राधान्यात् 'त्वं गतिः नास्ति' इति निर्देशः ।
  3. हताः स्म सर्वाः सह-ड.
  4. कैकेयीभरतयोरेव तवाभिमानसत्त्वात् तव भरत एक एव सुतः, कैकेय्येकैव
    भार्या – इति शोकादुक्तिः ।
  5. कौसल्यायाः परुषं वाक्यं श्रुत्वा मोहमाप । कथञ्चिछ्ब्धसंज्ञः स्वदुष्कृतं स्मरन् पुनः शोकं प्रविवेश ॥
  6. संहितां-च.
  7. रामेति-च