पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
36
[अयोध्याकाण्डः
दशरथोपालंभः


 पुनरपि दृष्टान्तविशेषैः उक्त एवार्थः स्थाप्यते – न परेणेत्यादि । [१]आहृतमिति । क्रोष्ट्रादिखादितशेषमित्यर्थः ॥ १६ ॥

हविराज्यं पुरोडाशः [२] कुशा यूपाश्च खादिराः ।
नैतानि यातयामानि कुर्वन्ति पुनरध्वरे [३]॥ १७ ॥

 नैतानीत्यादि । एतानि हविरादीनि एकस्मिन् अध्वरे विनियोगेन यातयामानि पुनरध्वरे - अध्वरान्तरे विनियुक्तानि यथा न कुर्वन्ति, तथा ह्यन्येनाप्तमिदं राज्यं रामो नाभिमन्तुमलम् । यद्यपि ’मन्त्राः कृष्णाजिनं दर्भाः' इत्यादिस्मृत्या दर्भविशेषाणां कुशानामया- तयामत्वं सामान्यतः प्राप्तम् ; अथापि महाध्वरविनियुक्तानामध्वरान्तरे विनियोगो निषिद्ध एव । 'ब्रह्मयज्ञे तु ये दर्भा विनियुक्ता न तेऽन्यतः' इतिवन्निषेधोऽस्मादेव वचनात् सिद्धः कुशानामपि ॥ १७ ॥

नैवंविधमसत्कारं राघवो मर्षयिष्यति
बलवानिव शार्दूलः [४] वालधेरभिमर्शनम् ॥ १८ ॥
वालधि:-वालकाण्डः ॥ १८ ॥
नैतस्य सहिता लोकाः भयं कुर्युर्महामृधे ।
अधर्मं त्विह धर्मात्मा लोकं [५] धर्मे तु योजयेत् ॥ १९ ॥

शार्दूलवत् बलवत्त्वमेव दर्शयति – नैतस्येत्यादि । सहिताः- देवासुरसहिता लोकाः- प्रतियोधाः । अपि च न केवलं देहबलमात्रं,


  1. अत्र मातृकायां ’इदमिति' इति प्रतीकं दृश्यते । परन्तु तादृशपाठस्य मूलेऽदर्शनात् औचित्याच्च एवं निवेशितम् ।
  2. 'मन्त्राः कृष्णाजिनं दर्भाः' इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दः कुशादिव्यतिरिक्तपरा:-गो.
  3. एतदनन्तरं-' तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । नाभिमन्तुमलं रामः
    नष्टसोममिवाध्वरम् ॥ न चेमा घर्षणां रामः संगच्छेदत्यमर्षणः । दारयेन्मन्दरमपि स
    हि क्रुद्धः शितैः शरैः ॥ त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात्। ससोमार्कग्रहगणं नभस्ताराविचित्रितम् ॥ पातयेद्यो दिवं क्रुद्धः स त्वां न व्यतिवर्तते । प्रक्षोभयेद्दारयेद्वा महीं शैलशताचिताम् ॥ ' इत्यधिकं-ङ.
  4. केशविशिष्टो वाल: वालधिरिति केचित् ।
  5. धर्मेण - ङ.