पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ सर्गः]
35
देव! रामं विना नाहमुत्सहे जीवितुं क्षणम्


गुणवन्तः धर्मशास्त्रज्ञविद्वांसः द्विजातयः पश्चात्पङ्क्तौ सुधामपि - तथा स्वाद्वन्नमपि सुरोपमास्ते ब्राह्मणा नानुमन्यन्ते ॥ १२-१३ ॥

ब्राह्मणेष्वपि [१] तृप्तेषु पश्चात् भोक्तुं द्विजर्षभाः ।
नाभ्युपैतुमलं प्राज्ञाः [२] शृङ्गच्छेदमिवर्षभाः ॥ १४ ॥

 ननु कुतो नानुमन्यन्ते ? ब्राह्मणशेषभोजने शूद्रशेषवत् दोषाभावात्, इत्यत्राह — ब्राह्मणेष्वित्यादि । [३] पूर्वतृप्तेषु ब्राह्मणेषु सत्स्वपि द्विजर्षभाः—वयोगुणाधिकाः द्विजश्रेष्ठाः पश्चात् मोक्तुमिच्छां अभ्युपैतुं नालं – न समर्थाः- नेच्छन्तीति यावत् । कुत इत्यतः -- प्राज्ञा इत्यादि । ऋषभाः शृङ्गच्छेदमिव निजावमानं प्राज्ञाः - 'प्रे दाज्ञः' इति कर्मण्यण्, अतो नानुमन्यन्ते ॥ १४ ॥

एवं कनीयसा भ्रात्रा भुक्तं राज्यं, विशांपते !
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं [४] नावमंस्यते ॥ १५ ॥

 अथ दार्ष्टान्तिके योज्यते — एवमित्यादि । विशांपते - प्रजानाथ ! ज्येष्ठो वयसा, अतिशयेन गुणैरुरुः – वरिष्ठः ; ’प्रियस्थिर-' इत्यादिना उशेः वरादेशः । किमर्थं नावमंस्यते- सर्वथा अवमंस्यत एव । ततश्चागतोऽपि कृशश्रोत्रियद्विजवदेव मज्जीवनपर्यन्तमिहावस्थास्यते इत्युक्तं भवति ॥ १५ ॥ प्रजानाथ !

न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
एवमेव नरव्याघ्रः [५] [६]परालीढं न मंस्यते ॥ १६ ॥


  1. भुक्तेषु-ङ, वृत्तेषु भुक्तशेषं-च.
  2. यद्वा – शृङ्गं - अग्रं, शृङ्गे छेदः यस्य तत् शृङ्गच्छेदं – छिन्नाग्रं तृणम् । यथा
    वृषभाः वृषभान्तरजग्धाग्रं तृणं भोक्तुं नालं तद्वदित्यर्थः । शृङ्गच्छेदमिति वृषभक्षिताग्र-
    तृणनामेत्यप्याहुः - गो.
  3. पूर्वं तृप्तानां ब्राह्मणत्वेऽपीत्यर्थः ।
  4. नावमन्यते-च.
  5. परालीढं - इतरास्वादितम् ।
  6. परलीढं- ङ