पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ सर्गः]
33
कथं निरस्तो धर्मात्मा रामो निष्करुणं त्वया


गीतवादित्रनिर्घोषं श्रुत्वा शुभ[१]मनिन्दिता ।
कथं ऋव्यादसिह्मानां शब्दं श्रोष्यत्यशोभनम् ॥ ६॥
[२] महेन्द्रध्वजसङ्काशः क्व नु शेते [३] महाभुजः
भुजं परिघसङ्काशं उपधाय महाबलः ॥ ७ ॥

 महेन्द्रध्वजो नाम इन्द्रधनुः, ध्वजाकारेण कदाचित् परमाभ्युदयनिमित्तत्वेन प्रतिभाति ॥ ७ ॥

पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥

 पद्मवर्णं–नलिनीदलश्यामवर्णम् ॥ ८ ॥

वज्र [४]सारमिदं नूनं हृदयं मे न संशयः ।
अपश्यन्त्या न तं यद्वै [५].फलतीदं सहस्रधा ॥ ९ ॥

 वज्रसारं-वज्रवत् कठिनम् । न फलति-न विशीर्यते; ञिफला विशरणे ॥९॥

[६] यत् [७] त्वया करुणं कर्म व्यपोह्य मम बान्धवाः ।
निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ १० ॥

 त्वया व्यपोह्य—मन्त्रिवृद्धादिभिस्सहाविचार्य यत् करुणं-शोचनीयं कर्म-अनुचितवरदानरूपं कृतं; तेन हेतुना मम बान्धवाः कैकेय्या निरस्ताः वने परिघावन्ति ॥ १० ॥


  1. समन्विता-च.
  2. इन्द्रधनुर्वत् प्रियदर्शनः ।
  3. सहानुजः-ड.
  4. सारमयं-ङ. च.
  5. दलतीदं -- ङ
  6. त्वया निरस्ता मम बान्धवाः रामादयः व्यपोह्य-नगरं त्यक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म-करुणाराहित्येन कृतं कर्मेत्यर्थः-गो. यद्वा, करुण कर्म व्यपोह्य-वर्जयित्वा - अकृत्वेति यावत्; मम बान्धवाः यत्
    निरस्ताः त्वया, सुखार्हास्ते कृपणाः वने परिधावन्तीत्यन्वयः ।
  7. त्वयाऽकरुणं-ङ.