एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ सर्गः]
33
कथं निरस्तो धर्मात्मा रामो निष्करुणं त्वया
महेन्द्रध्वजो नाम इन्द्रधनुः, ध्वजाकारेण कदाचित् परमाभ्युदयनिमित्तत्वेन प्रतिभाति ॥ ७ ॥
पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥
पद्मवर्णं–नलिनीदलश्यामवर्णम् ॥ ८ ॥
वज्रसारं-वज्रवत् कठिनम् । न फलति-न विशीर्यते; ञिफला विशरणे ॥९॥
त्वया व्यपोह्य—मन्त्रिवृद्धादिभिस्सहाविचार्य यत् करुणं-शोचनीयं कर्म-अनुचितवरदानरूपं कृतं; तेन हेतुना मम बान्धवाः कैकेय्या निरस्ताः वने परिघावन्ति ॥ १० ॥
- ↑ समन्विता-च.
- ↑ इन्द्रधनुर्वत् प्रियदर्शनः ।
- ↑ सहानुजः-ड.
- ↑ सारमयं-ङ. च.
- ↑ दलतीदं -- ङ
- ↑ त्वया निरस्ता मम बान्धवाः रामादयः व्यपोह्य-नगरं त्यक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म-करुणाराहित्येन कृतं कर्मेत्यर्थः-गो. यद्वा, करुण कर्म व्यपोह्य-वर्जयित्वा - अकृत्वेति यावत्; मम बान्धवाः यत्
निरस्ताः त्वया, सुखार्हास्ते कृपणाः वने परिधावन्तीत्यन्वयः । - ↑ त्वयाऽकरुणं-ङ.