पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
30
[अयोध्याकाण्ड:
कौसल्यासमाश्वासनम्


[१]नूपुरो[२] त्कृष्टहेलेव खेलं गच्छति भामिनी ।
इदानीमपि वैदेही [३] तद्रागान्यस्तभूषणा ॥ १९ ॥

 नूपुरेण – तध्वनिना उत्कृष्टा-तिरस्कृता डेला-हंसादिलीलागमनं यया सा तथा । सखेलं-सविलासम् । तद्रागात् - भर्तृप्रीतिप्रयोजकभूषणानुरागात् अन्यस्तानि-अत्यक्तानि भूषणानि यया सा तथा ॥

गजं वा वीक्ष्य सिह्मं वा व्याघ्रं वा वनमाश्रिता |
नाहारयति संत्रासं बाहू रामस्य संश्रिता ॥ २० ॥

 आहारयति- संप्राप्नोति । एवं सर्वत्रात्र ’कोपमाहारयत्' इत्यादौ ॥ २० ॥

न शोच्यास्ते न [४][५] चात्मा ते शोच्यो नापि जनाधिपः ।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ २१ ॥

 यदेवं, अतः ते-रामादयो न शोच्याः । अत एव आत्मा तेतावकोऽपि न शोच्यः । तेषां सुखश्रवणेन जनाधिपोऽपि जीविष्यतीति सोऽपि न शोच्यस्त्वया । इतश्च न शोचनीयांश इत्याह - इदं हीत्यादि । प्राप्तमपि राज्यं महाबलोऽपि परित्यज्य पितृवचनमपालयदिति, तथा स्वार्थमुद्दिश्य भर्तारमपि परित्यज्यातिघोरं कृतवती कैकेयीति कीर्त्यपकीर्तिरूपं युष्माकं चरितं लोके प्रतिष्ठास्यति । अतो युष्माकं अतः परमभ्यधिकं श्रेयश्च । अतो न शोचनीयमित्यर्थः ॥ २१ ॥


  1. तद्रागात्-नूपुरविषयस्नेहात् न्यस्तभूषणा-चरणाद्यवयवेष्वर्पितभूषणा नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव, खेलं- सलीलं गच्छति । ……. यद्वा तद्रागात्-रामेण सहागमनकौतुकात् न्यस्तभूषणा-उत्सृष्टनूपुराऽपि नूपुरोत्कृष्टहेलेव--नू पुरसञ्चितविलासेव-गां.
    तद्रागेण-भर्तृप्रीतिप्रयोजकभूषणानुरागेण अन्यस्तानि - अत्यक्तानि भूषणानि यया-ति.
  2. द्धुष्ट-ङ.
  3. तद्रागान्न्यस्त-ड.
  4. आत्मानः- वयं-गो.
  5. चात्मानः-ङ.