पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६० सर्गः]
29
रामादीनां धृतिं धर्मेऽशोच्यतां चाप्युपादिशत्


 अथ सीतायाः परमदुःखकारिणीं कैकेयीं प्रति सीता किं ब्रुवाणा तिष्ठति ? कृष्णकंसादिव इतिवैरप्रसङ्गस्यावश्यकत्वादित्यपेक्षायामाह - इदमित्यादि । अस्याः सीतायाः सहसैव-द्रागेव यदुपजल्पितमभूत् कैकेयीविषयकं - इदं स्मराम्येव । अथापि कैकेयीसंश्रितं तद्विषयवाक्यं मां प्रति नेदानीं प्रतिभाति । पथि गच्छता पक्ष्यादिशब्दवदनादरतः निर्विकल्पकज्ञानमात्रस्यैव वृत्तत्वतः संस्कारदार्ढ्याभावात् तत्स्मृत्यभाव इत्यर्थः ॥ १४ ॥

ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् ।
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ १५ ॥

 एवञ्च 'न ब्रूयात् सत्यमप्रियम्' इति न्यायेन 'सकामा भव कैकेयि' इत्यादिकं सीतावचनं दुःखकालीनं दुःखहेतुत्वादेव नोदाज- हांरेत्याह कविः – ध्वंसयित्वेत्यादि । प्रमादात् विस्मरणात् आगतं तद्वाक्यं ध्वंसयित्वा-प्रच्याव्य देव्याः ह्रादनं मधुरं वचोऽब्रवीत् ॥ १५ ॥

अध्वना वातवेगेन संभ्रमेणातपेन च ।
न विगच्छति वैदेह्याः चन्द्रांशुसदृशी प्रभा ॥ १६ ॥
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।
वदनं तद्वदान्यायाः वैदेह्या न विकम्पते ॥ १७ ॥

 'शतप्रत्र कुशेशयम् ' – पद्मम् ॥ १७ ॥

[१]अलक्तरसरक्ताभौ अलक्तरसवर्जितौ ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ १८ ॥

 अलक्तरसरक्ताभौ, पूर्वमिति शेषः ॥ १८ ॥


  1. अलक्तरसवर्जितावपि अलक्तरसवत् रक्ताभौ इति वा अर्थः ।