पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६० सर्गः]
27
सर्वान् विलपतः सूतः बहुधाऽसान्त्वयत्तदा


विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
विस्रंभं लभतेऽभीता रामे सन्न्यस्तमानसा ॥ ७ ॥
नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि [१]लक्षये ।
उचितेव प्रवासानां वैदेही प्रतिभाति [२]मे ॥ ८ ॥

 कृतमिति । वनवासकृतमिति यावत् ॥ ८ ॥

नगरोपवनं गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥
बालेव रमते सीता [३] बालचन्द्रनिभानना ।
[४] रामा रामे [५] ह्यधीतात्मा [६] विजनेऽपि वने सती ॥ १० ॥

 बालेवेति दुःखापरिज्ञाने दृष्टान्तः । न तस्या आधिजदुःखमस्ति, अप्ररूढदेहाभिमानत्वात् । राम एव आरामः- रामारामः तस्मिन् ह्यधीतं – अधिपूर्वादिणो निष्ठा - प्रतिष्ठितः आत्मा- अन्तःकरणं यस्याः सा तथा, डाबुभाभ्यामिति डाप् । [७] विजनेऽपि वने रमत इत्यनुकर्षः ॥ १० ॥

तद्गतं हृदयं ह्यस्याः तदधीनं च जीवितम् ।
[८]अयोध्याऽपि भवेत्तस्याः रामहीना तथा वनम् ॥ ११ ॥

 तथा रमणे हेतुः -तद्गतमित्यादि ॥ ११ ॥


  1. लक्ष्यते-च.
  2. मा-ङ.
  3. ’अबालचन्द्रनिभानना' इति च्छेदः-ति. गो. दर्शोत्तरदिनवर्तिनः कलामात्रावशिष्टस्य चन्द्रस्य मुखदृष्टान्तत्वानुपपत्तेः तथा व्याख्यातम् । वस्तुतस्तु बालचन्द्रशब्दः नात्र दर्शोत्तरदिनचन्द्रविषयः, किन्तु बालार्क इत्यादिवत् उदयकालिकचन्द्रविषयः ।
    एवञ्च पौर्णम्यामेव आह्लादकरत्वातिशयवैपुल्यादिगुणविवक्षया बालचन्द्रनिभाननेत्युक्तम् ।
  4. रामा इति पृथक्पदं – रामे-अधीनात्मा-आसक्तचित्तेत्यर्थः-गो.
  5. ह्यधीनात्मा-ङ. ह्यदीनात्मा-च.
  6. निर्जने-ङ.
  7. निर्जने-ङ.
  8. रामहीना अयोऽध्यापि तस्याः सीताया वनं भवेदित्यन्वयः ।